SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ शवर्षसहस्राधिकं सूर्यदेवीनां पल्योपमा पञ्चवर्षशताधिकं प्रहदेवीनां च पूर्ण फ्ल्योगमार्धमुत्कृष्टमायुः, तथा नक्षत्रदेवीनां पल्योपमस्य 51 चतुर्थों भागो विशेषाधिकमुत्कृष्टमायुः, तारकदेवीनां पल्योपमस्याष्टमो भागः किश्चिदधिकमुत्कृष्टमायुरिति , तथा तारकदेवदेव्योः पृथगमिधानात् शेषेष्वष्टसु-चन्द्रादित्यप्रहनक्षत्रदेवतद्देवीरूपेषु भेदेषु पादः-पल्योपमस्य चतुर्थो भागो जघन्यमायुः, तथा तारकदेवानां तारकदेवीनां |च पल्योपमस्याष्टांश:-अष्टमो भाग इति ॥ ४१ ॥ ४२ ॥ अथ वैमानिकदेवानामुत्कृष्टां स्थितिमाह-दो साही'यादि, सौधर्मात्सौधर्मकल्पाद्यावत् शुक्रो-महाशुक्रकल्पस्तावदनन क्रमेणोत्कृष्टा स्थितिः प्रतिपत्तव्या, तथाहि-सौधर्मे कल्पे देवानामुत्कृष्टा स्थितिढ़ें अतरे, तरीतुमशक्यं प्रभूतकालतरणीयत्वादतरं सागरोपमं, द्वे सागरोपमे इत्यर्थः, ईशाने ते एव द्वे सागरोपमे साधिकेकिश्चित्समधिके, सनत्कुमारे सप्त सागरोपमाणि, माहेन्द्रे तान्येव सप्त सागरोपमाणि साधिकानि, ब्रह्मलोके दश सागरोपमाणि लान्तके चतुर्दश महाशुक्रे सप्तदश, 'तदुवरि एकेकमारोवे' इति तस्य-महाशुक्रस्य कल्पस्योपरि सहस्रारादिषु प्रतिकल्पं प्रतिवेयकं च पूर्वस्मात् पूर्वस्मादधिकमेकैकं सागरोपमं उत्कृष्टायुश्चिन्तायामारोपयेत् , तद्यथा-सहस्रारेऽष्टादश सागरोपमाण्युत्कृष्टा स्थितिः आनते | एकोनविंशतिः प्राणते विंशतिः आरणे एकविंशतिः अच्युते द्वाविंशतिः अधस्तनाधस्तनौवेयके त्रयोविंशतिः अघस्तनमध्यमे चतुविंशतिः अधस्तनोपरितने पञ्चविंशतिः मध्यमाधस्तने षडिंशतिः मध्यममध्यमे सप्तविंशतिः मध्यमोपरितनेऽष्टाविंशतिः उपरितनाधस्तने एकोनत्रिंशत् उपरितनमध्यमे त्रिंशत् उपरितनोपरितनप्रैवेयके एकत्रिंशत्सागरोपमाण्युत्कृष्टा खितिः ॥ ४३ ॥ एकैकवृद्ध्या च एकत्रिंशतोऽनन्तरमनुत्तरेषु द्वात्रिंशदेव स्यात् अतस्तेषु पृथगाह-'तेत्तीसे'त्यादि, विजयादिषु-विजयवैजयन्तजयन्तापराजितेषु चतुर्षु अनुत्तरविमानेषु त्रयस्त्रिंशदुतराणि-सागरोपमाण्युत्कृष्टा स्थितिः, जघन्या पुनरेतेषु विजयादिषु चतुर्पु एक Jan Education remation For Private Personal use only "www.gainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy