________________
Jain Education
एकैके च द्विधा - मेरोर्दक्षिणदिग्भागवर्तिनो मेरोरेवोत्तर दिग्भागवर्तिनश्च तत्रासुरकुमाराणां दक्षिणदिग्भाविनामिन्द्रश्चमरः उत्तरदिग्भा विनां च बलिः, तत्र 'चमरबलि सारमहियं 'ति पदैकदेशेऽपि पदसमुदायोपचारात् 'सार' मिति सागरोपमं द्रष्टव्यं प्राकृतत्वाश्ञ्चमरबलिशब्दाभ्यां परतः षष्ठीविभक्तेर्लोपः, ततोऽयमर्थः - चमरबल्योः क्रमेण सागरोपममधिकं चोत्कृष्टमायुः, किमुक्तं भवति ? - चमरस्यासुरेन्द्रस्य दक्षिणदिग्वर्तिन उत्कृष्टमायुरेकं परिपूर्ण सागरोपमं, बलेरसुरेन्द्रस्य उत्तरदिग्वर्तिनः सागरोपमं किञ्चित्समधिकमिति, सम्प्रति | शेषाणां चमरबलिव्यतिरिक्तानां सुराणां देवानां नागकुमाराद्यधिपतीनामित्यर्थः आयुर्वक्ष्ये, तदेव कथयति - ' दाहिणदिवडपलियं दो |देसूणुत्तरिल्लाणं' इत्यादि, दाक्षिणात्यानां नागकुमाराद्यधिपतीनां - धरणप्रमुखानां नवानामिन्द्राणामुत्कृष्टमायुः द्वितीयमर्ध यस्य तद् द्वष पल्योपमं, सार्धं पल्योपममित्यर्थः, 'उत्तरिल्लाणं'ति उत्तराहाणां - उत्तर दिग्भाविनां नागकुमारादीन्द्राणां भूतानन्दप्रभृतीनां नवानां देशोने - किञ्चिदूने द्वे पल्योपमे, उत्तरदिग्वर्तिनो होते स्वभावादेव शुभाश्विरायुषश्च भवन्ति, दक्षिणदिग्वर्तिनस्तु तद्विपरीता इति ॥ ३८ ॥ इत्युक्तं भवनवासिनां देवानां उत्कृष्टमायुः, सम्प्रति भवनवासिव्यन्तरदेवीनामाह - 'अजुट्ठे 'त्यादि, असुरयोः - असुरेन्द्रयोश्चमरवलिनाम्नोयुगलं असुरयुगलं तस्य देवीनां यथाक्रममुत्कृष्टमायुरर्धचतुर्थानि अर्धपञ्चमानि च पल्योपमानि चमरेन्द्रदेवीनां सार्धानि त्रीणि बलीन्द्रदेवीनां तु साधनि चत्वारि पल्योपमानीत्यर्थः, शेषाणां नागकुमाराद्यधिपतीनां तूत्तरदिग्वर्तिनां तथा 'वण'न्ति वनचराणां - व्यन्तराणामुत्तरदक्षिणदिग्वर्तिनां चशब्दात् दक्षिणदिग्भावि नागकुमाराद्यधिपतीनां च सम्बन्धिनीनां देवीनां यथाक्रममुत्कृष्टमायुर्देशोनं पस्यो - पममर्धपल्योपमं च इयमत्र भावना - उत्तरदिग्भाविनागकुमाराद्यधिपतिदेवीनामुत्कृष्टमायुर्देशोनं पल्योपमं दक्षिणदिग्भाविनागकुमाराद्यधिपतिदेवीनां दक्षिणोत्तरदिग्भाविव्यन्तरराधिपतिदेवीनां चोत्कृष्टमायुरर्ध पस्योपममिति, केचिद्व्यन्तरीणां पस्योपममुत्कृष्टमायुराहुः
For Private & Personal Use Only
444
www.jainelibrary.org