SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ &AC प्रव० सारोद्धारे तत्वज्ञानवि० १९४ भवनपत्यादीनांस्थितिः गा. ११२८-४६ ॥३३३॥ SONUSANSARKARISMALAM दक्षिणत उत्तरतश्च द्वयोर्द्वयोरिन्द्रयोर्मावात् षोडश इन्द्रा भवन्ति, एवं पिशाचादिष्वप्यष्टसु षोडश भवनपतिषु च दशसु विंशतिः, अत एव विंशतिर्भवनपतीन्द्राणां द्वात्रिंशतो व्यन्तरेन्द्राणां असङ्ख्यातत्वेऽपि चन्द्रार्काणां जातिमात्राश्रयणाद् द्वयोश्चन्द्रसूर्ययोज्योतिष्केन्द्रयोः दशानां च सौधर्मादिकल्पेन्द्राणां मीलने चतुःषष्टिरिन्द्रा इति ॥ ३१ ॥ ३२ ॥ ज्योतिष्कभेदानाह-चंदे'त्यादि, चन्द्राः सूर्याः प्रहाः | नक्षत्राणि तारकाश्चेत्येवं पञ्च ज्योतिष्कभेदा भवन्ति, तत्र चैके-मनुष्यक्षेत्रवर्तिनो ज्योतिष्काश्चला-मेरोः प्रादक्षिण्येन सर्वकालं भ्रमण शीलाः अपरे पुनर्ये मानुषोत्तरपर्वतात्परेण स्वयंभूरमणसमुद्रं यावद्वर्तन्ते ते सर्वेऽपि स्थिराः-सदावस्थानस्वभावाः, अत एव घण्टाकारा | अचलनधर्मकत्वेन घण्टावत् स्थानस्था एव तिष्ठन्तीत्यर्थः ॥ ३३ ॥ वैमानिकभेदानाह-'सोहंमी'त्यादिगाथाचतुष्कं, इह वैमानिका | द्विविधा:-कल्पोपपन्नाः कल्पातीताश्च, तत्र कल्पः-आचारः, स चात्र इन्द्रसामानिकत्रायस्त्रिंशादिव्यवस्थारूपः तं प्रतिपन्नाः कल्पोपपन्नाः, ते च द्वादश, तद्यथा-सौधर्मदेवलोकनिवासिनः सौधर्माः ईशानदेवलोकनिवासिन ईशानाः एवं सर्वत्रापि मावनीयं, भवति च 'तालथ्यात्तव्यपदेशो' यथा पश्चालदेशनिवासिनः पाञ्चाला इति, यथोक्तरूपं कल्पमतीता:-अतिक्रान्ताः कल्पातीताः-ौवेयका अनुत्तरविमानवासिनः, सर्वेषामपि तेषामहमिन्द्रत्वात् , तत्र लोकपुरुषस्य श्रीवाप्रदेशे भवानि विमानानि अवेयकानि, तानि च नव, तद्यथा-सुदर्शनं |१ सुप्रबुद्धं २ मनोरम ३ विशालं ४ सर्वतोभद्रं ५ सुमनः ६ सौमनसं ७प्रीतिकरं ८ आदित्यं ९ चेति, तथा न विद्यन्ते उत्तराणिप्रधानानि विमानानि येभ्यस्तान्यनुत्तराणि तानि च पञ्च, तद्यथा-विजयं वैजयन्तं जयन्तं अपराजितं सर्वार्थसिद्धं च, एतन्निवासिनो देवा एतन्नामानो द्रष्टव्याः, मिलिताश्च वैमानिकाः पर्डिशतिः । एतेषां मूलभेदापेक्षया चतुर्विधानां भवनपत्यादिदेवानां 'ठिइति स्थिति| रायुष्कलक्षणा प्रतिपाद्यते ॥ ३४ ॥ ३५॥ ३६॥ ३७॥ तामेवाह-चमरेत्यादि, इहासुरकुमारादयो दश भवनपतिनिकायाः, Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy