SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ पदसंस्कारः, तत्रापि वनानामन्तराणि वनान्तराणि तेषु भवा वानमन्तराः, पृषोदरादित्वादुभयपदान्तरालपी मागमः, इदं तु व्युत्पत्तिनिमित्तं प्रवृत्तिनिमित्तं तु सर्वत्रापि जातिभेद एवानुसर्तव्यः । तथा द्योतयन्ति-प्रकाशयन्ति जगदिति ज्योतींषि-विमानानि तेषु भवा ज्योतिष्काः । तथा विविधं मान्यन्ते-उपभुज्यन्ते पुण्यवद्भिर्जीवैरिति विमानानि तेषु वसन्ती येवंशीला विमानवासिनः । एते च भवनपत्यादयो देवाः 'क्रमेण यथासङ्ख्यं दशाष्टपञ्चषडिंशतिसर्भेदैर्युक्ता भवन्ति ॥ २८ ॥ सम्प्रयेतानेव क्रमेण भेदाननिधित्सुः प्रथमं तावद्भवनपतिभेदानाह–'असुरे'त्यादि, भवनवासिनां अवान्तरजातिभेदमधिकृत्य दश भेदा भवन्ति, तद्यथा-'असुरा' इति पदैकदेशे | पदसमुदायोपचारादसुरकुमाराः एवं नागकुमारा इत्याद्यपि परिभावनीयं, अथ कस्मादेते कुमारा इति व्यपदिश्यन्ते ?, उच्यते, कुमार४ वच्चेष्टनात् , तथाहि-सर्व एवैते कुमारा इव शृङ्गाराभिप्रायकृतविशिष्टोत्तरोत्तररूपक्रियासमुद्धतरूपवेषभाषाभरणप्रहरणावरणयानवाहना | अत्युल्बणरागाः क्रीडनपराश्व, ततः कुमारा इव कुमारा इति, गाथानुबन्धानुलोम्यादिकारणाच कुतश्चिदेते एवं पठिताः, प्रज्ञापनादौ त्वमुनैव क्रमेण पठ्यन्ते, तथाहि-"असुरा नाग सुवन्ना विजू अग्गी य दीव उदही य । दिसिपवणथणियनामा दसहा एए भवण४वासी ॥१॥" ॥ २९ ॥ व्यन्तरभेदानाह-'पिसाये'त्यादि, सुगमा ॥ ३० ।। इहापरेऽप्यष्टौ व्यन्तरभेदाः सन्तीत्यतस्तानप्याह 'अणे'त्यादिगाथाद्वयं, अप्रज्ञप्तिकाः पञ्चप्रज्ञप्तिकाः ऋषिवादिताः भूतवादिताः क्रन्दिताः महाक्रन्दिताः कूष्माण्डाः पतङ्गाश्चेत्येवमपरेपिशाचादिव्यतिरिक्ता अष्टौ व्यन्तरनिकायाः, रत्नप्रभायाः पृथिव्याः प्रथमे-उपरितने योजनश ते भवन्ति, एतदुक्तं भवति-रत्नप्रभाया उपरितने रत्नकाण्डरूपे योजनसहस्रे अध उपरि च प्रत्येकं योजनशतरहिते पिशाचादयोऽष्टी व्यन्तरनिकायाः सन्ति, तत्र च यदुपरि योजनशतं मुक्तं तत्राध उपरि च दशयोजनरहि तेऽप्रज्ञप्तिकादयोऽष्टाविति, तेषु च-अप्रज्ञप्तिकादिष्वष्टसु व्यन्तरनिकायेषु रुचकस्याधस्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy