________________
स्तियश्चश्च भवन्त्यमनस्कतिर्यञ्चः, उपलक्षणत्वादमनस्का मनुजाच, इदमुक्तं भवति-सत्यतिवर्षायुष्कनरतिर्यञ्च एवासंक्षिपञ्चेन्द्रियतिर्यनरेपूत्पद्यन्ते, न देवनारका इति, तथा युगलधार्मिकनरतिर्यग्वर्जिताश्चतुर्गतिका अपि जीवा गर्भजचतुष्पदभावं प्राप्नुवन्ति, केवलं देवाः सहस्रारादर्वाग् द्रष्टव्याः, आनतादिदेवानां मनुष्येष्वेवोत्पादात् , एवं शेषाणामपि गर्भजतिर्यक्पञ्चेन्द्रियाणां द्रष्टव्यं, जीवामिगमादौ | चतुर्गतिकजीवानां जलचरादिषूत्पादस्योक्तत्वात् ॥ २२ ॥ नैरयिका अमराश्च तथा युगलधार्मिकनरतिर्यग्वर्जितास्तिर्यञ्चो मनुष्याश्च मनुजत्वेन-गर्भजमनुष्यत्वेनोत्पद्यन्ते १९१ ॥ २३ ॥ सम्प्रति 'उप्पत्तिमरणविरहो जायंतमरंतसंखा उत्ति द्विनवतित्रिनवत्यधिकशततमं द्वारयुग्ममाह
भिन्नमुहुत्तो विगलेंदियाण संमुच्छिमाण य तहेव । बारस मुहुत्त गम्भे सवेसु जहन्नओ समओ ॥ २४ ॥ उच्चद्दणावि एवं संखा समएण सुरवरु तुल्ला । नरतिरियसंख सवेसु जति सुरनारया गन्भे ॥ २५॥ वारस मुहुत्त गम्भे मुहुत्त सम्मुच्छिमेसु चउवीसं । उक्कोसविरहकालो दोसुवि य जहनओ समओ॥ २६॥ एमेव य उबद्दणसंखा समएण सुरवरतुल्ला । मणुएK उववज्जेऽसंखाउय
मोत्तु सेसाओ॥२७॥ 'भिन्ने'त्यादिगाथाचतुष्कं, विकलेन्द्रियाणां-द्वित्रिचतुरिन्द्रियाणां सम्मूर्छिमाणां च-असंक्षिपञ्चेन्द्रियाणां तिरश्चां प्रत्येकं भिन्नःखण्डो मुहूर्तोऽन्तर्मुहूर्तमित्यर्थः, उत्कृष्ट उपपातविरहकालः, तथा 'गब्भे'त्ति गर्भजपञ्चेन्द्रियतिरश्चामुत्कृष्ट उपपातविरहकालो द्वादश मुहूर्ताः, जघन्यतः पुनः सर्वेष्वपि विकलेन्द्रियादिषूपपातविरहकाल एकसमयः ॥ २४ ॥ विकलेन्द्रियाणां सम्मूर्छ जानां गर्भव्यु -
in Education Eternatidal
For Private & Personal use only
www.jainelibrary.org