________________
प्रव० सा
रोद्धारे
तत्त्वज्ञा
नवि०
॥ ३३० ॥
देवानां प्रसिद्धत्वात् भवनपतय इत्यर्थः तेषु तथा चोकं प्रज्ञापनायां " विराहियसंजमाणं जहनेणं भवणवासीसु उक्कोसेणं सोहम्मे कप्पे” तथा “विराहियसंजमासंजमाणं जहन्त्रेणं भवणवासीसु उक्कोसेणं जोइसिएसु"त्ति अत्र च 'विराधितसंयमानां विराधित:सर्वात्मना खण्डितो न पुनः प्रायश्चित्तप्रतिपस्या भूयः संधितः संयमः संयमासंयमश्च यैस्ते तथा तेषां ॥ १९ ॥ शेषाणां तापसादीनां - तापसचरकपरिव्राजकादीनां जघन्यत उपपातो जिनैः - तीर्थकरैर्भणितो व्यन्तरेषु प्रज्ञापनायां तु तापसादीनां 'जहत्रेणं भवणवासीसु' इत्युक्तं, स पुनरुपपातविधिर्निज क्रियास्थितानां - निज निजागमोक्तानुष्ठाननिरतानां न स्वाचारहीनानामिति १९० ॥ २० ॥ इदानीं 'एएसिं जत्तो आगइ'त्ति एकनवत्यधिकशततमं द्वारमाह
नेरहयजुयलवज्जा एगिंदिसु इंति अवरगइजीवा । विगलत्तेणं पुण ते हवंति अनिरय अमरजुयला ॥ २१ ॥ हुंति हु अमणतिरिच्छा नरतिरिया जयलधम्मिए मोतुं । गन्भचउप्पयभावं पावंति अजुयलच उगइया ।। २२ ।। नेरइया अमरावि य तेरिच्छा माणवा य जायंति । मणुयत्तेणं वज्जित्तु जुयलधम्मियनरतिरिच्छे ॥ २३ ॥
'नेरइये' त्या दिगाथात्रयं, नैरयिकयुगलधार्मिकवर्जिता अपरगतिजीवाः सङ्ख्यातवर्षायुषः एकद्वित्रिचतुःपञ्चेन्द्रियतिर्यङ्नराः सनत्कुमारादिदेवानामेकेन्द्रियेष्वनुत्पादात् भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवाच एकेन्द्रियेषु - पृथिव्यादिष्वागच्छन्ति, केवलं तथाभवस्खाभाव्याद्देवास्तेजोवायुवर्जितेषु पर्याप्तबादरेषु समायान्तीत्यवसेयं, तथा नैरयिकदेवयुगलधार्मिकवर्जितास्ते - तिर्यङ्नरजीवा विकलेन्द्रियत्वेन - द्वित्रिचतुरिन्द्रियत्वेन भवन्ति, द्वित्रिचतुरिन्द्रियेष्वागच्छन्तीति भावः ॥ २१ ॥ युगलधार्मिकांस्तिरश्च नरांश्च वर्जयित्वा शेषा नरा
Jain Education International
For Private & Personal Use Only
१९१ एकेन्द्रियादी४ नामागतिः
गा. ११२१ -११२३
॥ ३३० ॥
www.jainelibrary.org