SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ खिनः तेषामुपपात उत्कर्षतो भवति यावज्ज्योतिष्काः, तत ऊर्द्ध नोत्पद्यन्त इति भावः, तथा चरकपरिव्राजका-धाटिभैक्षोपजीविनखिदण्डिनः अथवा चरका:-कच्छोटकादयः परिव्राजकाः-कपिलमुनिसूनवः चरकाश्च परिव्राजकाच तेषामुत्कर्षत उपपातो यावद्ब्रह्मलोकः ॥ १५ ॥ जिनोक्तानि यानि ब्रतानि-प्राणातिपातविरमणादीनि यच्चोत्कृष्ट-विशिष्टमष्टमादितपो याश्च क्रिया:-प्रतिदिनानुष्ठेयप्रत्युपेक्षणादिकाः एतैः सर्वैरपि भव्यानामभव्यानां च मिथ्यादृशां जीवानां देवेषूत्पद्यमानानामुत्कृष्टा गतिवेयकेषु, इयमत्र भावना-ये किल भव्या अभव्या वा सम्यक्त्वविकलाः सन्तः श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणश्च तेऽपि केवलक्रियाकलापप्रभावत उपरितनप्रैवेयकान् यावदुत्पद्यन्ते एव, असंयताश्चैते, सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वादिति, जघन्या तु गतिभवनपतिषु, एतञ्च देवेषत्पादापेक्षया द्रष्टव्यं, (प्रन्थाग्रं ८००) अन्यथा देवत्वादन्यत्रापि यथाध्यवसायमुत्पादो भवतीति ॥ १६ ॥ छाद्यते-आत्रियते यथाऽवस्थितमात्मनः स्वरूपं येन तच्छद्म-ज्ञानावरणीयादिकर्म तस्मिन् तिष्ठन्तीति छद्मस्थाः ते च ते संयताश्च छद्मदि स्थसंयताः तेषामुत्कर्षत उपपातः सर्वार्थसिद्धे महाविमाने, श्रावकाणां-देशविरतिमनुष्याणां पुनरुपपात उत्कर्षतोऽच्युतं-द्वादशदेवलोकं यावदिति ॥ १७ ॥ उपपातो लान्तके-षष्ठदेवलोके चतुर्दशपूर्वधरस्य जघन्यतो भवति, उत्कृष्टतस्तु सर्वार्थसिद्धे, अकर्मकस्य-क्षीणाष्टकर्मणः पुनश्चतुर्दशपूर्विणः उपलक्षणत्वादन्येषां मनुष्याणां क्षीणकर्मणां सिद्धिगमो-मोक्षावाप्तिर्भवतीति ॥ १८ ॥ साधोः प्रव्रज्याकालादारभ्याविराधितश्रामण्यस्थ-अखण्डितसर्वविरतिरूपचारित्रस्य, श्रावकस्य चाविराधितश्रामण्यस्य-अखण्डितयथागृहीतदेशचारित्रस्य जघ न्यत उपपातः सौधर्म-प्रथमदेवलोके, केवलं तत्रापि साधोर्जघन्या स्थितिः पल्योपमपृथक्त्वं श्रावकस्य तु पल्योपममिति, तथा साधूनां 8| श्रावकाणां च निजनिजब्रतभङ्गे जघन्यत उपपातो वनचरादिषु, वनचरा-व्यन्तरास्तेषामादयः-प्रथमाः, भवनपतिव्यन्तरादिक्रमेणागमे BLOGGER BLOG Jain Education Interational For Private Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy