________________
RUAROKARORAKAR
मत्यद्भुतं बलं न विद्यते येन परतोऽप्यागतं शब्दं शृणुयादिति, तथा चक्षुरिन्द्रियमुत्कर्षतः सातिरेकाद्योजनलक्षादारभ्य कटकुट्यादिमिरव्यवहितं रूपं गृह्णाति-परिच्छिनत्ति, परतोऽव्यवहितस्यापि परिच्छेदे चक्षुपः शक्त्यभावात् , एतच्चाभासुरद्रव्यमधिकृत्योच्यते, भासुरं तु द्रव्यमधिकृत्य प्रमाणाङ्गुलनिष्पन्नेभ्य एकविंशतियोजनलक्षेभ्योऽपि परतः पश्यन्ति, यथा पुष्करवरद्वीपार्धे मानुषोत्तरनगनिकटवतिनो नराः कर्कसंक्रान्तौ सूर्यबिम्ब, उक्तं च "इगवीसं खलु लक्खा चउतीसं चेव तह सहस्साई । तह पंच सया भणिया सत्ततीसाएँ अइरित्ता ॥ १॥ इइ नयणविसयमाणं पुक्खरदीवड़वासिमणुयाणं । पुब्वेण य अवरेण य पिहं पिहं होइ नायव्वं ॥ २॥” तथा शेषाणि-घाणरसनस्पर्शनेन्द्रियाणि क्रमेण गन्धं रसं स्पर्श च प्रत्येकमुत्कर्षतो नवभ्यो योजनेभ्य आगतं गृह्णन्ति, न परतः, परत आगतानां मन्दपरिणामत्वभावात् घाणादीन्द्रियाणां च तथारूपाणामपि तेषां परिच्छेदं कर्तुमशक्तत्वात् ॥ ७॥ ८॥ अथ जघन्यं विषयमानमाह-'अंगुले'त्यादि, चक्षुरिन्द्रियं मुक्त्वा शेषाणि चत्वारि श्रोत्रादीनि जघन्यतोऽङ्गुलासङ्ख्येयभागादागतं स्वस्वविषयं शब्दादिकं जानन्ति, प्राप्तार्थपरिच्छेदकत्वात् , चक्षुः पुनरप्राप्तकारित्वाजघन्यतोऽङ्गुलसङ्ख्येयभागमात्रव्यवस्थितं पश्यति, न तु ततोऽप्यक्तिरमिति, प्रतिप्राणि प्रतीतश्चायमर्थः, तथा च नातिसन्निकृष्टमसनरजोमलादिकं चक्षुः पश्यतीति, इह च पृथुत्वपरिमाणं स्पर्शनेन्द्रियव्यतिरेकेण शेषाणां चतुर्णामिन्द्रियाणामात्माङ्गुलेन प्रतिपत्तव्यं, स्पर्शनेन्द्रियस्य तूत्सेधाङ्गुलेन, विषयपरिमाणं पुनः सर्वेषामप्यात्माङ्गुलेनैव, अत्र चोभयत्राप्युपपत्तिः सविस्तरतरा भाष्यादवसातव्या १८८ ॥ ९ ॥ इदानीं 'लेसाउ'त्ति एकोननवत्यधिकशततमं द्वारमाह___ पुढवीआउवणस्सइवायरपत्तेसु लेस चत्तारि । गम्भे तिरियनरेसुंछल्लेसा तिन्नि सेसाणं ॥१०॥ बादरशब्दः प्रत्येकमभिसम्बध्यते, प्रत्येकवनस्पतीनां च स्वरूपोपदर्शनार्थमेव व्यभिचाराभावात् , पर्याप्त इति विशेषणं च सामर्थ्याद्
SARASWARAN
Jan Education Intematon
For Private
Personal Use Only
www.jainelibrary.org