________________
प्रव० सारोद्धारे तत्त्वज्ञानवि०
न्द्रियाणां
॥३२७॥
मिति, तच्च पञ्चधा-श्रोत्रादिभेदात् , तत्र श्रोत्रमाभ्यन्तरी निर्वृत्तिमधिकृत्य कदम्बपुष्पाकारं मांसगोलकरूपं चक्षुः किश्चित्समुन्नतमध्य- १८८इपरिमण्डलाकारमसूराख्यधान्यविशेषसदृशं ब्राणमतिमुक्तककुसुमदलचन्द्रकवत् किञ्चिद् वृत्ताकारमध्यविततं प्रदीर्घत्र्यससंस्थितं कर्णाटकायुधं क्षुरप्रस्तत्परिसंस्थितं-तदाकारं रसनेन्द्रियमिति ॥ ५॥ तथा-नाणे'त्यादि, स्पर्शनेन्द्रियं पुनर्नानाकार-अनेकसंस्थानसंस्थितं,
स्वरूपविशरीरस्यासङ्ख्येयभेदत्वात् , तथा बाहल्यतः सर्वाण्यपीन्द्रियाण्यङ्गुलस्यासङ्ख्येयो भागः । ननु यदि स्पर्शनेन्द्रियस्याप्यनुलासङ्ख्येयभागो
Pषयौ बाहल्यं ततः कथं खड्गाद्यमिघाते अन्तः शरीरस्य वेदनानुभवः ?, तद्युक्तं, वस्तुतत्त्वापरिज्ञानात् , त्वगिन्द्रियस्य हि विषयः शीतादयः
गा.११०५ | स्पर्शाः, यथा चक्षुषो रूपं, न च खड्गाद्यभिघाते अन्तः शरीरस्य शीतादिस्पर्शने वेदनमस्तीति, किन्तु केवलं दुःखवेदनं, तच्चात्मा सकले
-११०९ नापि शरीरेणानुभवति, न केवलेन त्वगिन्द्रियेण, ज्वरादिवेदनावत् , ततो न कश्चिद्दोषः, अथ शीतलपानकादिपाने अन्तः शीतस्पर्शवेदनाऽप्यनुभूयते, ततः कथं सा घटते ?, उच्यते, इह त्वगिन्द्रियं सर्वत्रापि प्रदेशपर्यन्तवति विद्यते, तथा पूर्वसूरिभिर्व्याख्यानात् , तथा च प्रज्ञापनामूलटीका-"सर्वप्रदेशपर्यन्तवर्तित्वात्त्वचोऽभ्यन्तरतोऽपि शुषिरस्योपरि त्वगस्त्येवे"ति, ततोऽभ्यन्तरतोऽपि शुषिर| स्योपरि त्वगिन्द्रियस्य भावादुपपद्यते अन्तरपि शीतस्पर्शवेदनानुभवः, तथा एवमेव-अङ्गलासयेयभागप्रमाणान्येव पृथुत्वतो-विस्तरतोऽपीन्द्रियाणि भवन्ति ॥ ६ ॥ नवरं रसनस्पर्शनयोर्विशेषः, तमेवाह-'अंगुले त्यादि गाथापूर्वार्ध, अङ्गुलपृथक्त्वविस्तारं रसनेन्द्रिय, स्पर्शनं पुनः शरीरविस्तृतं भणितं, यस्य जीवस्य यावन्मानं शरीरं स्पर्शनमपि तस्य विस्तरतस्तावत्प्रमाणमित्यर्थः । अथेन्द्रियविषयमान
माह-'बारे'यादि सार्धा गाथा, द्वादशभ्यो योजनेभ्य आगतं धनगर्जितादिशब्दमुत्कृष्टतो गृह्णाति श्रोत्रं, न परतः, परत आगताः दाखलु ते शब्दपुद्गलास्तथास्वाभाव्यान्मन्दपरिणामास्तथोपजायन्ते येन स्वविषयं श्रोत्रविज्ञानं नोत्पादयितुमीशाः, श्रोत्रेन्द्रियस्य च तथाविध
AAAAAAAER-53
Jain Education Intel
For Private Personel Use Only