________________
%%
एमेव पुत्तओ नवरं ॥ ६ ॥ अंगुलपुहुत्त रसणं फरिसं तु सरीरवित्थडं भणियं । बारसहिं जोहिं सोयं परिहिए सद्दं ॥ ७ ॥ रूवं गिण्हह चक्खू जोयणलक्खाओं साइरेगाओ। गंध रसं च फासं जोयणनवगाउ सेसाणि ॥ ८ ॥ अंगुल असंखभागा मुणंति विसयं जहन्नओ मोतुं । चक्खुं तं पुण जाणइ अंगुलसंखिज्जभागाओ ॥ ९ ॥
इन्दनादिन्द्रः - आत्मा सर्वद्रव्योपलब्धिरूपपरमैश्वर्ययोगात् तस्य लिङ्गं - चिह्नमविनाभावि इन्द्रियं तद् द्विधा - द्रव्येन्द्रियं भावेन्द्रियं च, तत्र द्रव्येन्द्रियं द्विधा - निर्वृत्तिरूपमुपकरणरूपं च निर्वृत्तिर्नाम प्रतिविशिष्ट संस्थानविशेषः, साऽपि द्विधा - बाह्या आभ्यन्तरा च तत्र बाह्या कर्णकर्पटिकादिरूपा, सा च विचित्रा न प्रतिनियतरूपतया व्यपदेष्टुं शक्यते, तथाहि - मनुष्यस्य श्रोत्रे नेत्रयोरुभयपार्श्वतो भाविनी भ्रुवां चोपरितने श्रवणबन्धापेक्षया समे वाजिनो नेत्रयोरुपरि तीक्ष्णे चाप्रभागे इत्यादिजातिभेदान्नानाविधा, आभ्यन्तरा तु निर्वृत्तिः सर्वेषामपि जन्तूनां समाना, तामेव चाधिकृत्य प्रस्तुतसूत्रोक्तं संस्थानमवसेयं, केवलं स्पर्शनेन्द्रियनिर्वृत्तेः प्रायो न बाह्याभ्यन्तरभेदः, तत्त्वार्थमूलटीकायां तथाऽभिधानात् उपकरणं-खड्गस्थानीयाया बाह्यनिर्वृत्तेर्या खड्गधारासमाना स्वच्छतरपुद्गलसमूहात्मिकाऽभ्यन्तरा निर्वृत्तिः तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमन्तर्निर्वृत्तेः कथञ्चिदर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात् कथञ्चिद्भेदश्च सत्यामपि तस्यामन्तर्निवृत्तौ द्रव्यादिनोपकरणस्य विघातसम्भवात् तथाहि - सत्यामपि कदम्बपुष्पाद्याकृतिरूपायामन्तर्निर्वृत्तावतिकठोरतरघनगर्जितादिना शक्त्युपघाते सति न परिच्छेत्तुमीशते जन्तवः शब्दादिकमिति भावेन्द्रियमपि द्विधा - लब्धिरुपयोगश्च तत्र लब्धिःश्रोत्रेन्द्रियादिविषयः सर्वात्मप्रदेशानां तदावरणकर्मक्षयोपशमः, उपयोगः- स्वस्वविषये लब्धिरूपेन्द्रियानुसारेणात्मनो व्यापारप्रणिधान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org