SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ १८८३ प्रव० सारोद्धारे तत्त्वज्ञा नवि० न्द्रियाणां स्वरूपवि| पयौ गा.११०५ ॥३२६॥ -११०९ & बादरपृथिवीशरीरं तस्मादप्यसङ्ख्यातगुणमेकं बादरनिगोदशरीरमिति, एतच्च सर्वमपि भगवत्येकोनविंशतितमशतकतृतीयोद्देशकानुसारेणोक्तं न तु निजमनीषिकयेति, इह च पृथिव्यादीनामङ्गुलासवेयभागमात्रावगाहनात्वेऽप्यसोयभेदत्वादङ्गलासङ्ख्येयभागस्येतरेतरापेक्षया|ऽसोयगुणत्वं न विरुद्ध्यते ॥ २॥ अथ द्वीन्द्रियादीनामवगाहनामाह-विकलेन्द्रियाणां-द्वित्रिचतुरिन्द्रियाणां यथाक्रमं शरीरमानं द्वादश योजनानि त्रयः क्रोशाः चत्वारः क्रोशाः, इयमत्र भावना-द्वीन्द्रियाणां शङ्खादीनामुत्कर्षतो देहमानं द्वादश योजनानि त्रीन्द्रियाणां कर्णशृगालीमकोटकादीनां त्रीणि गव्यूतानि चतुरिन्द्रियाणां भ्रमरादीनामेकं योजनं शेषाणां पृथिव्यप्तेजोवायूनां साधारणवनस्पतीनां संमूर्छिममनुष्याणां सर्वेषामपि चापर्याप्तजीवानामुत्कर्षतोऽवगाहना-देहमानमङ्गुलासयेयो भागः ॥ ३ ॥ अथ तिर्यक्पञ्चेन्द्रियाणां मनुष्याणां च देहमानमाह-गर्भजचतुष्पदाना-हस्त्यादीनामुत्कृष्टं देहमानं षड्गव्यूतानि भुजगेषु गर्भजेषु-गोधानकुलादिषु गव्यूतपृथक्त्वं, पृथक्त्वं च द्विप्रभृत्यानवभ्यः, पक्षिषु-गृध्रादिषु 'व्याख्यानतो विशेषप्रतिपत्तेः' गर्भजेषु संमूर्छिमेषु च धनुःपृथक्त्वं, मनुष्येषु च गर्भजेषु त्रीणि गव्यूतानि, 'मणुएसु यत्ति चकारोऽनुक्तसमुच्चये, ततः संमूर्छिमचतुष्पदानां गवादीनामुत्कर्षतो देहमानं गव्यूतपृथक्त्वम् , संमूर्छिमभुजगानां धनुष्पृथक्त्वं, संमूर्छिमोरगाणां च योजनपृथक्त्वं, एतच्च प्रज्ञापनावगाहनासंस्थानपदोक्तानुसारेणास्माभिरभिहितमिति, इदं चोत्कर्षतः सर्वमपि देहमानं, जघन्यतस्तु सर्वेषामपि जीवानामङ्गुलस्यासङ्ख्याततमो भागः, स चोपपातसमये बोद्धव्यः १८७ ॥४॥ सम्प्रति 'इंदियसरूवविसओ य एएसिति अष्टाशीत्यधिकशततमं द्वारमाह कायंबपुप्फगोलय १ मसूर २ अइमुत्तयस्स कुसुमं च ३ । सोयं १ चक्खू २ घाणं ३ खुरप्पपरिसंठि रसणं ४ ॥५॥ नाणागारं फासिंदियं तु बाहल्लओ य सवाई । अंगुलअसंखभागं ॥३२६॥ Jain Education International For Private 3 Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy