________________
CHAR
यानि पद्मानि तानि पृथिवीपरिणामरूपाण्येव, यथा श्रीदेवतायाः पद्महदे पद्मं, यानि पुनः शेषेषु गोतीर्थादिषु स्थानेषु पद्मानि तानि वनस्पतिपरिणामरूपाण्यपि भवन्ति, तानि च शेषेषु जलाशयेषु, वल्ल्यादयश्चोत्कर्षतो यथोक्तमाना भवन्ति, तथा चोक्तं विशेषणवत्याम्"पुढवीपरिणामाई ताई किर सिरिनिवासपउमं व । गोतित्थेसु वणस्सइपरिणामाइं तु होजाहि ॥१॥जत्थुस्सेहंगुलओ सहस्समवसेसएसु यजलेसुं। वल्लीलयादओऽवि य सहस्समायामओ होंति ॥२॥" [तानि किल पृथ्वीपरिणामानि श्रीनिवासपद्ममिव । गोतीर्थेषु वनस्पतिपरिणामानि तु भवेयुः॥१।यत्रोत्सेधांगुलतः सहस्रं अवशेषेषु च जलेषु । वल्लीलतादयोऽपि च सहस्रमायामतो भवन्ति ।।२]॥११००-११०१॥ तथा प्रत्येकवनस्पतिवर्जितानां पंचानामपि पृथिव्यादीनामङ्गुलासङ्ख्येयभागमानाऽवगाहना वक्ष्यते, ततस्तत्र विशेषमाह-वणे'त्यादि, 'विगले'त्यादि, 'गब्भे'त्यादि, 'वण'त्ति वनस्पतीनां 'अणंत'त्ति अनन्तकायिकानां सूक्ष्माणां यान्यसङ्ख्ययानि शरीराणि तेषां 8 प्रमाणेन-मानेनैकमनिलशरीरकं वायुशरीरं, किमुक्तं भवति ?-सूक्ष्मसाधारणवनस्पतीनामसङ्ख्यातैः शरीरैस्तुल्यमेकं सूक्ष्मं वायुशरीरमिति, उक्तं च प्रज्ञप्तौ-'अणंताणं सुहुमवणस्सइकाइयाणं जावइया सरीरा से एगे सुहुमवाउसरीरे"त्ति, अनन्तकायिकानां यावन्ति शरीराणि तदेकं सूक्ष्मं वायुशरीरं, तावत्शरीरप्रमाणमित्यर्थः, यावग्रहणाचासङ्ख्यातानि शरीराणि ग्राह्याणि, अनन्तानामपि वनस्पतीनामेकाद्यसङ्ख्येयान्तशरीरत्वेनानन्तानां शरीराणामभावात् , ततो वायुकायिकशरीरादनलोदकपृथिवीना-अग्निजलपृथिवीकायिकशरीराणां सूक्ष्माणां बादराणां च यथाक्रममसङ्ख्यगुणा भवति वृद्धिः, इयमत्र भावना-यावत्प्रमाणमेकं सूक्ष्मवायुकायिकशरीरं ततोऽप्यसङ्ख्यातगुणमेकं सूक्ष्मतेजस्कायिकशरीरं ततोऽसङ्ख्यातगुणमेकं सूक्ष्माप्कायिकशरीरं ततोऽप्यसङ्ख्यातगुणमेकं सूक्ष्मपृथिवीकायिकशरीरं ततोऽप्यसङ्ख्यातगुणमेकं वादरवायुशरीरं ततोऽसङ्ख्यातगुणमेकं बादराग्निशरीरं ततोऽप्यसङ्ख्यातगुणमेकं बादराप्कायिकशरीरं ततोऽप्यसङ्ख्यातगुणमेकं
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org