SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ 39-434645 - 5 पृथिव्यादीनां मनुष्यपर्यन्तानां स्थिति:-आयुःप्रमाणरूपा एषा उत्कृष्टा, यथा-पृथिवीकायिकानां द्वाविंशतिवर्षसहस्राणि अप्कायिकानां सप्त वर्षसहस्राणि तेजस्कायिकानां त्रीणि रात्रिन्दिवानि वाते-वातकाये त्रीणि वर्षसहस्राणि वृक्षा-वनस्पतयो दशवर्षसाहस्रिकाः, किमुक्तं भवति ?-वनस्पतिकायिकानामुत्कर्षतः स्थितिर्दश वर्षसहस्राणीति, तथा द्वीन्द्रियाणामुत्कर्षत आयुःस्थितिादश वर्षाणि त्रीन्द्रिया-12 णामेकोनपञ्चाशद्रात्रिन्दिवानि चतुरिन्द्रियाणां षण्मासाः पञ्चेन्द्रियाणां तिर्यग्मनुष्याणां त्रीणि पल्योपमानि, एषा चोत्कृष्टा स्थितिः प्रायो | निरुपद्रवस्थाने द्रष्टव्या, एवमग्रेऽपि ज्ञेयं ॥ ९६ ॥९७॥ एवं सामान्येन पृथिव्यादीनामुत्कृष्टां स्थितिमभिधाय पृथिवीभेदेषु विशेषेणाह|'सण्हे'त्यादि, इह पूर्वार्धपदानामुत्तरार्धपदानां च यथाक्रमं योजना, सा चैव-लक्ष्णा-मरुस्थल्यादिगता पृथिवी तस्या एक वर्षसहस्रमुत्कष्टमायुः शुद्धा-कुमारमृत्तिका तस्या द्वादश वर्षसहस्राणि वालुका-सिकता तस्याश्चतुर्दश वर्षसहस्राणि मनःशिला प्रतीता तस्याः षोडश शर्करा-दृषत्कर्करिका तस्या अष्टादश खरपृथिवी-शिलापाषाणरूपा तस्या द्वाविंशतिवर्षसहस्राण्युत्कृष्टमायुः, जघन्यं तु सर्वत्राप्यन्तर्मुहूर्तमिति १८६ ॥ ९८ ॥ सम्प्रति 'एएसिं तणुमाण ति सप्ताशीत्यधिकशततमं द्वारमाह जोयणसहस्समहियं ओहपएगिदिए तरुगणेसु । मच्छजुयले सहस्सं उरगेसु य गन्भजाईसु ॥१०९९ ॥ उस्सेहंगुलगुणियं जलासयं जमिह जोयणसहस्सं । तत्थुप्पन्नं नलिणं विन्नेयं भणियमाणंति॥११००॥ जं पुण जलहिदहेसुं पमाणजोयणसहस्समाणेसुं। उप्पज्जइ वरपउमं तं जाणसु भूवियारंति ॥ ११०१॥ वणऽणंतसरीराणं एगमनिलसरीरगं पमाणेणं । अनलोदगपुढवीणं असंखगुणिया भवे वुड्डी ॥२॥ विगलिंदियाण बारस जोयणा तिन्नि चउर कोसा य । सेसाणोगा 1 Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy