SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ प्रव० सा- पुत्पद्यन्ते ते पृथिव्यादिविविधव्यवहारयोगात् सांव्यवहारिकाः, ये पुनरनादिकालादारभ्य सूक्ष्मनिगोदेष्वेवावतिष्ठन्ते ते तु तथाविधव्य रोद्धारे वहारातीतत्वादसांव्यवहारिकाः, तत्र सांव्यवहारिकाः सूक्ष्मनिगोदेभ्य उद्धृत्य शेषजीवेपूत्पद्यन्ते, तेभ्योऽप्युद्धृत्य केचिद् भूयोऽपि तेष्वेव तत्त्वज्ञा- | निगोदेषु गच्छन्ति, परं तत्रापि सांव्यवहारिका एव ते, व्यवहारे पतितत्वात् , तत्र च सूत्रोक्तमुत्कर्षतोऽवस्थानकालमानं, असांव्यवहानवि० दि| रिकास्तु सदा निगोदेष्वेवोत्पत्तिमरणभाजो, न कदाचनापि त्रसादिभावं लब्धवन्त इति । तथा विकलानां-द्वित्रिचतुरिन्द्रियाणां प्रत्येकं | कायस्थितिस्तु सङ्ख्याता वर्षसहस्राः 'विगलाण य वाससहस्सं संखेजत्ति पञ्चसङ्ग्रहवचनात् , पञ्चेन्द्रियतिरश्चां मनुष्याणां च संज्ञिप॥३२४॥ याप्तानामुत्कृष्टा कायस्थितिः सप्ताष्टौ वा भवा भवेत् , तत्र सप्त भवाः सङ्ख्येयवर्षायुषः अष्टमस्त्वसङ्ख्येयवर्षायुष एव, तथाहि-पर्याप्तमनुष्याः पर्याप्तसंज्ञिपञ्चेन्द्रियतिर्यञ्चो वा निरन्तरं यथासङ्ख्यं सप्त नरभवांस्तिर्यग्भवान् वाऽनुभूय यद्यष्टमे भवे भूयस्तेष्वेवोत्पद्यन्ते तदा नियमादसङ्ख्यायुष्केष्वेव नेतरेषु, असङ्ख्यायुश्च मृत्वा सुरेष्वेवोत्पद्यन्ते ततो नवमोऽपि नरभवस्तिर्यग्भवो वा निरन्तरं न लभ्यते, अष्टसु च भवेषत्कर्षतः कालमानं त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाधिकानि, जघन्या तु सर्वत्रापि कायस्थितिरन्तर्मुहूर्तमिति १८५ ॥९४॥ ॥ ९५ ॥ सम्प्रति 'एगिदियविगलसन्निजीवाणं भवटिइत्ति षडशीत्यधिकशततमं द्वारमाह बावीसई सहस्सा सत्तेव सहस्स तिनिहोरत्ता । वाए तिनि सहस्सा दसवाससहस्सिया रुक्खा ॥९६॥ संवच्छराइं बारस राइंदिय हुंति अउणपन्नासं । छम्मास तिन्नि पलिया पुढवाईणं ठिउकोसा ॥९७ ॥ सण्हा य १ सुद्ध २ वालुय ३ मणोसिला ४ सक्करा य ५ खरपुढवी ६ । एकं १ बारस २ चउदस ३ सोलस ४ अट्ठार ५ बावीसा ६॥९८॥ १८५ एकेन्द्रियादीनां कायस्थितिः १८६ भकस्थितिःगा. १०९४-९८ ॥३२४॥ Jain Education international For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy