________________
॥९४ ॥ वाससहस्सासंखा विगलाणं ठिइउ होइ बोद्धव्वा । सत्तट्ठभवा उ भवे पणिदितिरिम
णुय उक्कोसा ॥९५॥ एकेन्द्रियाणां चतुर्णा-पृथिव्यप्तेजोवायुरूपाणां प्रत्येकमुत्कृष्टा कायस्थितिः-मृत्वा मृत्वा तत्रैव कायेऽवस्थानमसयेया उत्सर्पिण्यवसपिण्यः, एतच्च कायस्थितिमानं कालतः, क्षेत्रतस्वसङ्ख्येया लोकाः, इदमुक्तं भवति-असङ्ख्येयेषु लोकाकाशेषु प्रतिसमयमेकैकप्रदेशापहारे सर्वप्रदेशापहारेण यावत्योऽसङ्ख्येया उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्य इति, ता एव-उत्सर्पिण्यवसर्पिण्योऽनन्ता वनस्पतिकायिकस्योत्कृष्टा कायस्थितिः बोद्धव्या, इयमपि कालतः, क्षेत्रतस्तु पूर्वोक्तप्रकारेण अनन्ता लोकाः, असङ्ख्ययाः पुद्गलपरावर्ताः, ते च आवलिकाया असङ्खयेयतमे भागे यावन्तः समयाः तत्तुल्या, इयं च कायस्थितिः सांव्यवहारिकानाश्रित्य द्रष्टव्या, असांव्यवहारिकजीवानां त्वनादिरवसेया, ततो न मरुदेव्यादिभिर्व्यभिचारः, तथा च क्षमाश्रमणाः-तह कायठिइकालादओ विसेसे पडुश्च किर जीवे ।
नाणाइवणस्सइणो जे संववहारबाहिरिया ॥१॥" [तथा कायस्थितिकालादयो विशेषान् जीवान् किल प्रतीत्य । नानादिवनस्पतीन् ये M|संव्यवहारबाह्याः॥ १॥] यापि चासांव्यवहारिकजीवानामनादिः कायस्थितिः साऽपि केषाश्चिदनादिरपर्यवसाना, ये जातुचिदप्य। सांव्यवहारिकराशेरुद्धृत्य सांव्यवहारिकराशौ न निपतिष्यन्ति, केषाञ्चिदनादिः सपर्यवसाना, येऽसांव्यवहारिकराशेरुद्धृत्य सांव्यवहादरिकराशौ निपतन्ति । अथ किमसांव्यवहारिकराशेर्विनिर्गस्य सांव्यवहारिकराशावागच्छन्ति ?, उच्यते, आगच्छन्ति, तथा चोक्तं विशेष
णवत्यां-"सिझंति जत्तिया किर इह संववहारजीवरासीओ । इन्ति अणाइवणस्सइरासीओ तत्तिया तंमि ॥१॥" [सिध्यन्ति यावन्तः किलेह संव्यवहारजीवराशेः । आयान्ति अनादिवनस्पतिराशेस्तावन्तस्तस्मिन् ॥ १॥] तत्र येऽनादिसूक्ष्मनिगोदेभ्य उद्धृत्य शेषजीवे.
RAGAOSTANACEAE.
CO
Jan Education International
For Private
Personal Use Only
www.jainelibrary.org