SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ३२३ ॥ ओवमस्स असंखेज्जइभागं पकरिंति” त्ति [असंज्ञिनो नैरयिकायुः प्रकुर्वन्तो जघन्येन दश वर्षसहस्राणि उत्कृष्टतः पत्योपमस्यासंख्येयभागं प्रकुर्वन्ति ] तथा द्वितीयामेव पृथिवीं यावद्गच्छन्ति सरीसृपा - भुजपरिसर्पा गोधानकुलादयो गर्भव्युत्क्रान्ता न ततः परतः, एवं तृतीयामेव गर्भजाः पक्षिणो-गृध्रादयः, चतुर्थीमेव सिंहा:- सिंहोपलक्षिताश्चतुष्पदा गर्भजाः, पञ्चमीमेव गर्भजा उरगाः - उरः परिसर्पाः सर्पादयः, षष्ठीमेव स्त्रियः - स्त्रीरत्नाद्या महारम्भादियुक्ताः, सप्तमीं यावद्गर्भजा मत्स्या - जलचरा मनुजाश्च अतिक्रूराध्यवसायिनो महापापकारिणः, एष जीवविशेषभेदेन परमः - उत्कृष्ट उपपातो बोद्धव्यो नरकपृथिवीषु जघन्यतस्तु सर्वेषामपि रत्नप्रभायाः प्रथमे प्रस्तटे मध्यमतः पुनर्जघन्यात्परतः स्वस्वोत्कृष्टोपपातादर्वागिति ।। ९१ ॥ ९२ ॥ सम्प्रति केषाञ्चित्तिर्यग्योनिजानां बाहुल्यकृतं विशेषमाह - 'वालेसु' इत्यादि, नरकेभ्य उद्धृता व्यालेषु सर्पादिषु दंष्ट्रिषु - व्याघ्रसिंहादिषु पक्षिषु - गृद्धादिषु जलचरेषु मत्स्यजातिषु सङ्ख्यातायुः स्थितय उत्पन्नाः सन्तो भूयः क्रूराध्यवसायवशगाः पञ्चेन्द्रियवधादीन् विधाय नरकायुषो भवन्ति, एतच्च बाहुल्येनोच्यते न तु नियमः, यतो नारकेभ्योऽपि केचिदुद्धृत्य सम्यक्त्वादिप्राप्तिवशाच्छुभां गतिमासादयन्तीति ९३ ।। १८२ ॥ सम्प्रति 'संखा उप्पज्जंताण'त्ति त्र्यशीत्यधिकशततमद्वारस्य 'तह य उवट्टमाणाणं' ति चतुरशीत्यधिकशततमद्वारस्य चावसरो विवरणाय, परमुत्पत्तिनाशविरकालद्वारे 'संखा पुण सुरवरतुल्ल'त्ति गाथादलेन तद्द्वारद्वयमपि व्यक्तं प्राग्व्याख्यातमिति नेदानीं तद्विवृतमिति १८३ - १८४ ॥ सम्प्रति 'एगिंदिय विगलिंदिय सन्नीजीवाण कायठिइओ'त्ति पश्चाशीत्यधिकशततमं द्वारमाह— अस्संखोसप्पिणिसप्पिणीउ एगिंदियाण (उ) चउन्हं । ता चेव ऊ अनंता वणस्सइए उ बोद्धवा Jain Education International For Private & Personal Use Only १८२ उप पातो नर केषु गा. १०९१-९३ १८३-१८४ अतिदेशः ॥ ३२३ ॥ www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy