SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ . 2 DPRESCR5-% % % यायाः-द्वितीयां मर्यादीकृत्य नरकेभ्य उद्धृता रामकेशवा-बलदेववासुदेवा भवन्ति, एवं सर्वत्र मर्यादा भावनीया, तृतीयाया उद्धृता ४. अर्हन्तो भवन्ति, चतुर्थ्या उद्धृता 'अंतकिरिय'त्ति पदैकदेशे पदसमुदायोपचाराद् अन्तक्रियासाधकाः, मुक्तिगामिनो भवन्तीत्यर्थः, तथा तमस्तमाभिधानायाः सप्तम्याः पृथिव्या उद्धृताः सन्तो नारका नियमान्मानुषत्वं न लभन्ते, किन्तु तिर्यग्योनिमुपनमन्ति-धातूनामनेकार्थत्वेन प्राप्नुवन्ति, तथा षष्ठया:-तमःप्रभाभिधानायाः पृथिव्या उद्धृताः सन्तो नारका इहानन्तरभवे मनुष्यजन्मनि भाज्या:-केचिन्मनुष्या भवन्ति केचित्तु नेति भावः, येऽपि च मनुष्या भवन्ति तेऽपि नियमतः संयमलाभेन-सर्वविरतिलाभेन विहीना भवन्ति, न तु कदाचनापि तद्युक्ताः १८१ ॥ ८८ ॥ ८९ ॥ ९॥ इदानीं 'तेसु जेसिमुववाओ' इति व्यशीत्यधिकशततमं द्वारमाह अस्सन्नी खलु पढमं दोचं च सरिसिवा तइय पक्खी। सीहा जति चउत्थि उरगा पुण पंचमि पुढविं ॥ ९१॥ छद्धिं च इत्थियाओ मच्छा मणुया य सत्तमि पुढविं। एसो परमुववाओ बोद्धबो नरयपुढवीसु ॥१२॥ वालेसु य दाढीसु य पक्खीसु य जलयरेसु उववन्ना । संखिज्जाउठिईया पुणोऽवि नरयाउया हुंति ॥१३॥ असंज्ञिनः-सम्मूछिमाः पञ्चेन्द्रियाः खलु प्रथमां नरकपृथिवीं गच्छन्ति, खलुशब्दोऽवधारणे, तच्चावधारणमेवं-असंज्ञिनः प्रथमा| मेव पृथिवीं यावद्गच्छन्ति, न परत इति, न तु त एव प्रथमां गच्छन्ति, गर्भजसरीसृपादीनामपि उत्तरपृथिवीषटकगामिनां तत्र गमनभावात् , एवमुत्तरत्राप्यवधारणं भावनीयं, असंज्ञिनश्चात्र तिर्यञ्चो ज्ञेयाः, संमूछिममनुष्याणामपर्याप्तानामेव कालकरणतो नरकगतेरभावात् , तत्रापि पल्योपमासङ्ख्येयभागायुष्केष्वेव, उक्तं च-"असन्नी णं नेरइयाउ पकरेमाणा जहन्नेणं दस वाससहस्साइं उक्कोसेणं पलि % % % र Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy