________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
१८१ नरकोद्वृत्तानां लन्धिःगा१०८१-९०
॥३२२॥
त्रिपद्यास्फालनादि च कुर्वन्ति, किंबहुना?, यथैषामित्थं प्रीतिर्न तथा नितान्तकान्ते प्रेक्षणकादाविति १८७ ॥ ८५ ॥ ८६ ॥ सम्प्रति 'नरयुषट्टाण लद्धिसंभवो'त्येकाशीत्यधिकशततमं द्वारमाह
तिसु तित्थ चउत्थीए केवलं पंचमीइ सामन्नं । छट्ठीऍ विरइविरई सत्तमपुढवीइ सम्मत्तं ॥८७॥ पढमाओ चक्कवट्टी बीयाओ रामकेसवा हुंति । तच्चाओ अरहंता तहतकिरिया चउत्थीओ॥८॥ उच्चट्टिया उ संता नेरइया तमतमाओ पुढवीओं। न लहंति माणुसत्तं तिरिक्खजोणिं उवणमंति ॥८९ ।। छट्ठीओ पुढवीओ उचहा इह अणंतरभवंमि । भजा मणुस्सजम्मे संजमलंभेण उ विहीणा ॥९॥ इह 'तिसु'त्ति सप्तम्याः प्राकृतत्वेन पञ्चम्यर्थत्वादाद्याभ्यस्तिसृभ्य एव पृथिवीभ्य उद्वृत्ता अनन्तरभवे तीर्थकृतो भवन्ति, न शेषपृथिवीभ्यः, सम्भवमात्रं चेदं, न नियमः, तेन ये पूर्वनिबद्धनरकायुषः सन्तः स्वहेतूपात्ततीर्थकृन्नामगोत्राः श्रेणिकादय इव नरकेषु गच्छन्ति त एव तत उद्वृत्ता अनन्तरभवे तीर्थकृतो, न शेषाः, चतुर्थ्याः पृथव्या उद्वृत्ताः केचित् केवलं केवलज्ञानं सामान्येन प्राप्नुवन्ति, तीर्थकृतस्तु नियमेन न भवन्ति, पञ्चम्या उद्वृत्ताः श्रामण्यं-सर्वविरतिरूपं लभन्ते न तु केवलज्ञानं, षष्ठया उद्वृत्ता विरत्यविरतिं-देशविरतिं लभन्ते न तु श्रामण्यं, सप्तम्या उद्वृत्ताः सम्यक्त्वं-सम्यग्दर्शनरूपं, न देशविरत्यादिकमिति, अयमत्र भावार्थ:-आद्याभ्यस्तिसृभ्य उद्धृत्तास्तीर्थकृतो भवन्ति चतसृभ्य उद्वृत्ताः केवलज्ञानिनः पञ्चम्या उद्वृत्ताः संयमिनः षष्ठया उद्वृत्ता देशविरताः सप्तम्या उद्वृत्ताः सम्यग्दृष्टय इति ॥८७॥ पुनरपि लब्धिविशेषसम्भवं दर्शयन्नाह-पढमे'त्यादि, प्रथमायाः-रत्नप्रभाया एवोद्धृताश्चक्रवर्तिनो भवन्ति न शेषपृथिवीभ्यः, द्विती
२२.
Jain Education International
For Private Personal Use Only
www.jainelibrary.org