SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ SCIENCESSOORSASCASSURESSROCKG कृत्वा भ्राष्ट्रपाकयोग्यान् करोतीत्यसावम्बरीषस्य-भ्राष्ट्रस्य सम्बन्धादम्बरीष इति २ यस्तु रज्जुपाणिप्रहारादिना शातनपातनादिकं करोति वर्णतश्च श्यामः स श्याम इति ३ यश्चात्रवसाहृदयकालेज्यकादीन्युत्पाटयति वर्णतश्च शबल:-कर्बुरः स शबल इति ४ यः शक्तिकुन्तादिषु नारकान् प्रोतयति स रौद्रत्वाद्रौद्रः ५ यस्तु तेषामङ्गोपाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्रः ६ यः पुनः कण्डादिषु पचति वर्णतश्च कालः स कालः ७ महाकाल इति चापरः परमाधार्मिक इति प्रक्रमः, स च श्लक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकाल इति ८ असिः-खड्गस्तदाकारपत्रवद्वनं विकुळ यस्तत्समाश्रितान्नारकानसिपत्रपातनेन तिलशश्छिनत्ति सोऽसिपत्रः ९ यो धनुविमुक्तार्धचन्द्रादिमिर्वाणैः कर्णादीनां छेदनभेदनानि करोति स धनुः १० भगवत्यां तु महाकालानन्तरमसिस्ततोऽसिपत्रस्ततः कुम्भ इति पठ्यते, तत्र योऽसिना नारकांश्छिनत्ति सोऽसिः शेषं तथैव, यः कुम्भ्यादिषु तान् पचति स कुम्भः ११ यः कदम्बपुष्पाकारासु वनाकारासु वा वैक्रियासु वालुकासु तप्तासु चनकानिव तान् पचति स वालुकः १२ विरूपं तरणं प्रयोजनमस्या इति वैतरणीति यथार्था पूर्यरुधिरत्रपुताम्रादिभिरतितापात्कलकलायमानभृतां नदी विकुर्वित्वा तत्तारणेन नारकान् यः कदर्थयति स वैतरणीति १३ यो वज्रकण्टकाकुलशाल्मलीवृक्षे नारकमारोप्य खरं स्वरं कुर्वन्तं कुर्वन् वा कर्षति स खरस्वरः १४ यस्तु भीतान् प्रपलायमानान्नारकान् पशूनिव वाटकेषु महाघोषं कुर्वतो निरुणद्धि स महाघोष इति १५ । एवमेते पञ्चदश परमाधार्मिकाः प्राग्जन्मनि सकृिष्टक्रूरक्रियाः पापाभिरताः पञ्चाग्यादिरूपं मिथ्याकष्टतपः कृत्वा रौद्रीमासुरी गतिमनुप्राप्ताः सन्तस्ताच्छील्यान्नारकाणामाद्यासु तिसृषु पृथिवीषु विविधवेदनाः समुदीरयन्ति तथा कदर्यमानांश्च नारकान् दृष्ट्वा इहत्यमेषमहिषकुर्कुटादियुद्धप्रेक्षकनरा इव हृष्यन्ति, हृष्टाश्चाट्टाट्टहासं चेलोत्क्षेप 25 1-964-9649 Jan Education Inteman For Private Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy