________________
प्रव० सारोद्धारे तत्त्वज्ञानवि०
ते १७८ नारलेश्या गा. १०८३
॥३२॥
लेसा हवंति एयाओ । भावपरावत्तिइ पुण सुरनेरइयाण छल्लेसा ॥ १॥ [देवानां नारकाणां च द्रव्यलेश्या भवन्त्येताः। भावपरावृत्ती पुनः सुरनैरयिकाणां षट् लेश्याः ॥ १॥] इति वचनात् , तस्मादेता नारकाणां वक्ष्यमाणाश्च सुराणां बाह्यवर्णरूपा एवेति, तदेतदयुक्तमभिप्रायापरिज्ञानात् , लेश्याशब्दो हि शुभाशुभे परिणामविशेष व्याख्यातः, तस्य च परिणाम विशेषस्योत्पादकानि कृष्णादिरूपाणि द्रव्याणि जन्तूनां सदा संनिहितानि सन्ति, एतैश्च कृष्णादिद्रव्यैर्जीवस्य ये परिणामविशेषा जन्यन्ते मुख्यतया त एव लेश्याशब्देनोच्यन्ते, गौणवृत्त्या पुनः कारणे कार्योपचारलक्षणया एतान्यपि कृष्णादिरूपाणि द्रव्याणि लेश्याशब्देन व्यपदिश्यन्ते, ततश्च नारकाणां देवानां च या लेश्यास्ता द्रव्यलेश्या द्रष्टव्याः, तत्तल्लेश्याद्रव्याणि तस्य तस्य नारकस्य देवस्य वा सर्वदैवावस्थितोदयानि द्रष्टव्यानीति तात्पर्य, न पुनर्बाह्यवर्णरूपाः, तानि च लेश्याद्रव्याणि तिर्यड्मनुष्याणामन्यलेश्याद्रव्योपधाने विशुद्धवस्त्रमिव मन्जिष्ठादिरागयोगे सर्वथा स्वरूपत्यागात्तद्रूपेणैव परिणमन्ते, अन्यथैतल्लेश्यायाः पल्योपमत्रयस्थितेरपि सम्भवादुत्कर्षतोऽप्यन्तर्मुहूर्तमागमोक्तं विरुध्येत, नारकदेवलेण्याद्रव्याणां तु तदन्यलेश्याद्रव्यसम्पर्के तदाकारमानं तत्प्रतिबिम्बमात्र वा जायते, न पुनः स्वस्वरूपपरिहारेण तद्रूपता, तथाहि-यथा वैडूर्यादिमणेः प्रोतकृष्णादिसूत्रसम्पर्कादस्पष्टं किश्चित्तदाकारभावमात्रं भवति स्फटिकोपलस्य वा जपाकुसुमादिसन्निधानतः स्पष्टं तत्ततिबिम्बमात्र, न तूभयत्रापि तद्रूपतापत्तिः, तथा कृष्णादिलेश्याद्रव्याण्यपि नीलादिलेश्याद्रव्यौघं प्राप्य कदाचिदस्पष्टं तदाकारभावमात्रं कदाचित्स्पष्टं तत्प्रतिबिम्बमात्रं प्रतिपद्यन्ते, न पुनस्तद्वर्णगन्धरसस्पर्शतया परिणम्य नीलादिलेश्याद्रव्यरूपाण्येव भवन्ति, न चैतन्निजमनीपाविजृम्भितं, प्रज्ञापनायां लेश्यापदे इत्थमेव प्रतिपादितत्वात् , तत्सूत्रं च विस्तरभयान्न लिखितमिति । एवं च सप्तमपृथिव्यामपि यदा कृष्णलेश्या तेजोलेश्यादिद्रव्याणि प्राप्य तदाकारमात्रेण तत्प्रतिबिम्बमात्रेण वाऽन्विता भवन्ति तदा सदावस्थितकृष्णलेश्याद्रव्ययोगेऽपि
।। ३२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org