________________
साक्षात्तेजोलेश्यादिद्रव्यसाचिव्ये इव शुभः परिणामो नारकस्य जायते जपोपरक्तस्फटिकसन्निधाने स्फटिकस्य रक्ततावत् , तत्परिणामे
चास्य सम्यक्त्वावाप्तिरविरुद्धेति, न चैवमपि तेजोलेश्यादिसद्भावे सप्तमपृथिव्यां केवलकृष्णलेश्याभिधायिनः सूत्रस्य व्याघातः, यत&स्तस्यां कृष्णव सदावस्थायिनी तैजस्यादिका त्वाकारमात्रादिना कदाचिदेव जायते, न च जातापि चिरमवतिष्ठते, न चावस्थितायामपि
तस्यां कृष्णलेश्यादिद्रव्याणि सर्वथा स्वस्वरूपं त्यजन्ति, ततोऽधिकृतसूत्रे कृष्णैव सप्तम्यामुक्तेत्येवं सर्वत्र भावनीयं, अत एव सङ्गमकादीनामप्याकारमात्रादिना कृष्णलेश्यासम्भवादुपपद्यते त्रिभुवनगुरावुपसर्गविधातृत्वं, या अपि भावपरावृत्त्या सुरनारकाणां षडपि लेश्या उक्तास्ता अपि प्रागुक्तेनैवाकारभावमात्रादिना प्रकारेण घटन्ते नान्यथा, लेश्यात्रयनियमस्तु सदावस्थितोदयलेश्याद्रव्यापेक्षत्वादविरुद्ध इति, किंच-आसां बाह्यवर्णरूपत्वे प्रज्ञत्यादिषु–'नेरइया णं भंते ! सव्वे समवन्ना ?, गोयमा ! नो इणद्वे समहे, से केणटेणं भंते ! एवं
बुञ्चइ ?, गोयमा ! नेरइया दुविहा पन्नत्ता, तंजहा-पुब्बोववनगा य पच्छोववन्नगा य, तत्थ णं जे ते पुब्वोववन्नगा ते णं विसुद्धवन्नत|रागा, जे ते पच्छोववन्नगा ते णं अविसुद्धवन्नतरागा, से एणट्टेणं गोयमा! एवं वुच्चइ-नो नेरइया सब्वे समवन्ना" इति वर्णमुक्त्वा "नेरइया णं भंते ! सब्वे समलेसा ?, गोयमा! नो इणढे समढे, से केणढेणं भंते! एवं वुच्चइ ?, गोयमा ! नेरइया दुविहा पन्नत्ता,
जहा-पुब्बोववन्नगा पच्छोववन्नगा य, तत्थ णं जे ते पुव्वोववन्नगा ते णं विसुद्धलेसतरागा, जे ते पच्छोववन्नगा ते णं अविसुद्धलेसतरागा, से एएणटेणं गोयमा! एवं वुच्चइ-नो नेरइया सम्बे समलेस्सा" इति लेश्योक्तिरतिरिच्येत, वर्णानामेव लेश्यात्वाभ्युपगमात्, तेषां च पूर्वसूत्रेणैव प्रतिपादितत्वादिति १७८ ॥ ८३ ॥ सम्प्रति ‘अवहित्ति एकोनाशीत्यधिकशततमं द्वारमाह
Jain Education International
For Private
Personel Use Only
www.jainelibrary.org