________________
काऊ १ का २ तह काऊनील ३ नीला ४ य नीलकिण्हा ५ य । किण्हा ६ किव्हा ७ य तहा सत्तसु पुढवीसु लेसाओ ॥ ८३ ॥
इह सामान्येन तावन्नारकाणां लेश्याषट्कमध्यादायाः कृष्णनीलकापोत्याख्यास्तिस्र एव लेश्या भवन्ति, ताश्च प्रतिपृथिवि प्रतिपायन्ते, तत्र कापोतादयो लेश्याः सप्तस्वपि पृथिवीषु यथासङ्ख्येन भवन्ति, तथाहि - रत्नप्रभायामेका कापोतलेश्यैव भवति, शर्कराप्रभायामपि कापोतलेश्यैव, केवलं किष्टतरा वेदितव्या, एवं सर्वत्र सजातीया विजातीया च लेश्याऽघोऽधः डिष्टतरा क्लिष्टतमा वाच्या, वालुकाप्रभायां कापोतनीला च लेश्या भवति, केषुचिदुपरितनेषु प्रस्तटेषु कापोतलेश्या केषुचिदधस्तनेषु नीललेश्येति भावः पङ्कप्रभायां केवला नीललेश्यैव, धूमप्रभायां नीललेश्या कृष्णलेश्या च केषुचिदुपरितनप्रस्तटेषु नीललेश्या शेषेष्वधस्तनप्रस्तटेषु कृष्णलेश्या भवतीत्यर्थः, तमः प्रभायामेकैव कृष्णलेश्या, तमस्तमः प्रभायामप्यतिसङ्किष्टतमा कृष्णलेश्यैवेति, इह च केचिदाचक्षते - यथैता नारकाणां वक्ष्यमाणाश्च देवानां बाह्यवर्णरूपाः किल द्रव्यलेश्या अवगन्तव्याः, अन्यथा सप्तमपृथिवीनारकाणां या सम्यक्त्वप्राप्तिः श्रुतेऽभिधीयते सा न युज्यते, तैजस्यादिलेश्यात्रय एव तदवाप्तेरुक्तत्वात्, यदुक्तमावश्यके – “सम्मत्तस्स य तिसु उवरिमासु पडिवज्जमाणओ होइ । पुव्वपडिवन्नओ पुण अन्नयरीए उ लेसाए ॥ १ ॥ [ सम्यक्त्वस्य च तिसृपूपरितनीषु प्रतिपद्यमानको भवति । पूर्वप्रतिपन्नकोऽन्यतरस्यां पुनर्लेश्यायां ।। १ ।। ] उपरितन्यश्च तिस्रो लेश्यास्तेषां न सन्ति सप्तमपृथिव्यां कृष्णलेश्याया एवोक्तत्वात्, तथा सौधर्मे तेजोलेश्यैव केवला वक्ष्यते, अस्याश्च प्रशस्तपरिणामहेतुत्वेन सङ्गमकादीनां भुवनगुरौ रौद्रोपसर्गकर्तृत्वानुपपत्तिः, तथा — 'काऊ नीला कण्हा लेसाओ तिन्नि होंति नरएसु ।' [ कापोती नीला कृष्णा लेश्यास्तिस्रो भवन्ति नरकेषु ] इत्यादिरूपो नियमोऽपि विरुध्यते 'देवाण नारयाण य दव्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org