SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० AS: AM ॥३१९॥ X *** इह नरकगतौ तिर्यमनुष्यगतिका जीवास्तावदनवरतं सदैवोत्पद्यन्ते कदाचित्त्वन्तरमपि भवति, तच्च सामान्येन सर्वामपि नरकगतिमाश्रित्य जघन्येनैकः समयः उत्कृष्टतस्तु द्वादश मुहूर्ताः, एतावन्तं कालमन्यत आगत्यैकोऽपि जन्तुर्नरकगतौ नोत्पद्यते इति भावः, निनादाइदं च सूत्रेऽनुक्तमपि स्वयमेव द्रष्टव्यं, यदुक्तम्-"निरइगई णं भन्ते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता?, गोयमा ! जहन्नेणं एक समयं उक्कोसेणं बारस मुहुत्त"त्ति, प्रतिपृथिवीषू(वितू )त्पादान्तरमुत्कृष्टतो रत्नप्रभायां चतुर्विशतिर्मुहूर्ताः शर्कराप्रभायां सप्ताहोरात्राः वालुकाप्रभायां पञ्चदश पङ्कप्रभायामेको मासः धूमप्रभायां द्वौ मासौ तमःप्रभायां चत्वारो मासाः तमस्तमःप्रभायां षण्मासा विरहकाल:-अन्तरकाल उत्कृष्टतः, जघन्यतः पुनः सर्वास्वपि रत्नप्रभादिकासु पृथिवीषु प्रत्येकं भवत्येकः समयो विरहकालः, 'एवमेव य उबट्टण'त्ति यथोपपातविरहकाल उक्तः एवमेव उद्वर्तनविरहकालोऽपि जघन्यत उत्कर्षतश्च वाच्यः, किमुक्तं भवति ?-नरकेभ्यो नारकाः प्रायः सततं च्यवन्ते कदाचिदेव त्वन्तरं, तञ्च सामान्येन नरकगतिमाश्रित्य जघन्यत एकः समयः, उत्कृष्टतस्तु द्वादश मुहूर्ताः । विशेपचिन्तायां तु जघन्यतः सर्वास्वपि पृथिवीषु उद्वर्तनाविरहकाल एकः समयः, उत्कर्षतो रत्नप्रभायां चतुर्विशतिर्मुहूर्ताः शर्कराप्रभायां सप्त दिना वालुकाप्रभायां पक्षः पङ्कप्रभायां मासः धूमप्रभायां द्वौ मासौ तमःप्रभायां चत्वारो मासाः तमस्तमःप्रभायां पण्मासाः, एकस्मिन्नारके उद्धृत्ते पुनरियता कालेनान्यो नारक उद्वर्तत इति भावः । 'संखा पुण सुरवरतुल्ल'त्ति उपपातोद्वर्तनयोः सङ्ख्या पुनरेक|स्मिन् समये कियन्तो नारका उत्पद्यन्ते च्यवन्ते चेत्येवंलक्षणा सुरवरैस्तुल्या यथा सुराणां वक्ष्यते तथैव द्रष्टव्या, तद्यथा-एकस्मिन् |समये नारका उत्पद्यन्ते च्यवन्ते च जघन्यत एको द्वौ वा उत्कर्षतस्तु सहयाता असङ्ख्याता वेति १७७ ॥ ८१ ॥ ८२ ॥ सम्प्रति ॥३१९॥ ॥'लेसाउ'त्ति अष्टसप्तत्यधिकशततमं द्वारमाह S AROKAMN064 * For Private & Personal Use Only 1 www.jainelibrary.org Jain Education
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy