________________
ॐ
%
%
%
प्रतिपृथिव्युत्कर्षत उत्तरवैक्रियामवगाहनामाह-'जा जम्मी'यादि, सप्तसु नरकेषु-नरकपृथिवीषु मध्ये यस्मिन्नरके-नरकपृथिव्यामुत्कृष्टा भवधारणीया याऽवगाहना उक्ता सा द्विगुणा सती यावत्प्रमाणा भवति तावती तस्यां नरकपृथिव्यामुत्कृष्टा उत्तरवैक्रियरूपा अवगाहना
बोद्धव्या, तद्यथा-रत्नप्रभायामुत्कृष्टा उत्तरवैक्रियावगाहना पञ्चदश धनूंषि द्वौ च साधौँ हस्तौ शर्कराप्रभायामेकत्रिंशद्धनूंषि एको हस्तः सवालुकाप्रभायां द्वाषष्टिर्धनूंषि द्वौ च हस्तौ पङ्कप्रभायां पञ्चविंशं धनुःशतं धूपप्रभायां सार्धे द्वे शते तमःप्रभायां पञ्च धनुःशतानि तमस्तमः
प्रभायां धनुःसहस्रमिति ॥७९॥ सम्प्रति भवधारणीयामुत्तरवैक्रियां च जघन्यामाह- भवेत्यादि, नरकेषु-सर्वासु नरकपृथिवीषु नारकाणां जघन्या भवधारणीया अङ्गुलस्यासङ्ख्येयो भागः, सा चोत्पत्तिसमये द्रष्टव्या, न त्वन्यदा, उत्तरवैक्रियरूपा पुनरवगाहना जघन्याऽङ्गुलसध्येयभागमात्रा, साऽपि च प्रारम्भकाले द्रष्टव्या, केवलं सा प्रथमसमयेऽपि तथाविधप्रयत्नाभावादङ्गुलसक्येयभागमात्रैव भवति न त्वसषेयभागमात्रा, केचिञ्च 'अंगुलअसंखभागो उ' इति पठन्तो जघन्यामुत्तरवैक्रियामप्यङ्गलासयातभागप्रमाणामाहुः, तदसङ्गतमेव समयविरोधात् , तथा च प्रज्ञापनासूत्रम्-"तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेजइभागं उकोसेणं धणुसहस्स"मिति, तथा अनुयोगद्वारटीकायां हरिभद्रसूरिरप्याह-"उत्तरवैक्रिया तु तथाविधप्रयत्नाभावादाद्यसमयेऽप्यङ्गुलसङ्ख्येयभागमा| वे"ति १७६ ॥ ८० ॥ इदानीं 'उप्पत्तिनासविरहो'त्ति सप्तसप्तत्यधिकशततमं द्वारमाह
चउवीसई मुहुत्ता १ सत्त अहोरत्त २ तह य पन्नरस शमासो य ४ दो य ५ चउरो ६ छम्मासा ७विरहकालो उ॥८१॥ उकोसो रयणाइसु सबासु जहन्नओ भवे समयो । एमेव य उच्चणसंखा पुण सुरवरुतुल्ला (राण समा)॥ ८२॥ .
%-91-87-%-ब
प्र.सा.५४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org