________________
TEA
नाभिद्रुतानां वेदनाशतसंप्रगाढानां ॥ १॥] पतन्तश्च विकुर्वितैर्वज्रतुण्डैरण्डजैरन्तराले नोटिभिस्रोट्यन्ते किञ्चिच्छेषास्तु भूमिपतिता| व्याघ्रादिभिर्विलुप्यन्त इति १७४ ॥ ७४ ॥ इदानीं 'आउ'त्ति पञ्चसप्तत्यधिकशततमं द्वारमाह
सागरमेगं१तिय २ सत्त ३ दस ४ य सत्तरस ५ तह य बावीसा ६ । तेत्तीसं ७ जाव ठिई सत्तसु पुढवीसु उक्कोसा ॥७५ ॥ जा पढमाए जेट्ठा सा बीयाए कणिट्ठिया भणिया । तरतमजोगो
एसो दसवाससहस्स रयणाए ॥७६॥ सप्तस्वपि नरकपृथिवीध्वियं यथासङ्ख्यमुत्कृष्टा स्थितिः, तद्यथा-रत्नप्रभायां पृथिव्यां सागरोपममेकमुत्कृष्टा स्थितिः शर्कराप्रभायां त्रीणि सागरोपमाणि वालुकाप्रभायां सप्त पङ्कप्रभायां दश धूमप्रभायां सप्तदश तमःप्रभायां द्वाविंशतिः तमस्तमःप्रभायां त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिरिति ॥ ७५ ॥ सम्प्रति सप्तस्वपि पृथिवीषु जघन्यां स्थितिमाह-'जे'त्यादि, या प्रथमायां-रत्नप्रभायां ज्येष्ठाउत्कृष्टा स्थितिरेकसागरोपमलक्षणा सा द्वितीयायां पृथिव्यां शर्कराप्रभामिधानायां कनिष्ठा-जघन्या भणिता, एष तरतमयोगो-जघन्योस्कृष्टस्थितियोगः सर्वास्वपि पृथिवीषु भावनीयः, तद्यथा-या द्वितीयायामुत्कृष्टा सा तृतीयायां जघन्या या तृतीयायामुत्कृष्टा सा चतुर्थ्या जघन्या एवं या षष्ठयामुत्कृष्टा सा सप्तम्यां जघन्या, रत्नप्रभायां प्रथमपृथिव्यां जघन्या स्थितिर्दश वर्षसहस्राणीति, अयमभिप्राय:प्रथमपृथिव्यां रत्नप्रभायां जघन्या स्थितिर्दश वर्षसहस्राणि शर्कराप्रभागामेकं सागरोपमं वालुकाप्रभायां त्रीणि सागरोपमाणि पङ्कप्रभायां सप्त धूमप्रभायां दशतमःप्रभांया सप्तदश तमस्तमःप्रभायां कालादिषु चतुर्यु नरकावासेषु द्वाविंशतिसागरोपमाणि जघन्या स्थितिः जघन्योस्कृष्टान्तरालवर्तिनी तु स्थितिः सर्वत्र मध्यमा बोद्धव्या १७५ । ७५ ॥ ७६ ॥ इदानीं 'तणुमाणं'ति षट्सप्तत्यधिकशततमं द्वारमाह
+CAS-460ACASSACCOR-C
CHECARAM
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org