________________
नारकाणामावासाः क्रमशः सप्तस्वपि पृथिवीषु त्रिशल्लक्षादयो भवन्ति, तथाहि - प्रथमायां पृथिव्यां त्रिंशच्छतसहस्रा लक्षा इत्यर्थः, एवं द्वितीयस्यां पञ्चविंशतिः तृतीयस्यां पञ्चदश चतुर्थ्यां दश पञ्चम्यां त्रीणि षष्ठयां पञ्चभिरूनं शतसहस्रं लक्षमित्यर्थः सप्तम्यां पञ्चैवानुत्तराः - सर्वाधोवर्तिनो नारकावासाः, ते चैवं पूर्वस्यां दिशि कालनामा नरकावासः अपरस्यां दिशि महाकाल: दक्षिणस्यां रोरुकः उत्तरस्यां महारोरुकः मध्येऽप्रतिष्ठानकः, मिलिताचैते चतुरशी तिर्लक्षाः १७३ ॥ ७३ ॥ सम्प्रति 'वेयण'त्ति चतुःसप्तत्यधिकशततमं द्वारमाहसत्तसु खेत्तसहावा अन्नोऽन्नुद्दीरिया य जा छट्ठी । तिसु आइमासु वियणा परमाहम्मियसुरकया य ॥ ७४ ॥
क्षेत्रस्वभावा— क्षेत्रस्वभावसमुद्भूता दुःखवेदना तावद्विशेषेण सप्तस्वपि नरकपृथिवीषु भवति, 'अन्नोऽन्नुद्दीरिया य जा छठ्ठी'ति याव च्छन्दोऽयमव्ययत्वेनानेकार्थत्वादिह मर्यादावाची, ततोऽन्योऽन्योदीरिता-नारकैरेव परस्परमुपजनिता वेदना षष्ठीं पृथिवीं यावत्-षष्ठया अर्वाक्पञ्चमीमभिव्याप्य भवतीति इदमुक्तं भवति-अन्योऽन्योदीरिता वेदना द्विधा - प्रहरणकृता शरीरकृता च, तत्र प्रहरणकृता आद्यास्वेव पञ्चसु पृथिवीषु भवति, शरीरकृता तु सामान्येन सप्तस्वपि पृथिवीषु न चैतदनार्ष, तथा चोक्तं जीवाभिगमोपांगे – “इमीसे णं भंते! रयणप्पभाए पुढवीए नेरइया जाव एगत्तंपि पहू विउब्वित्तए पुहुत्तंपि पहू विउब्वित्तए', एगत्तं विउव्वमाणा एगं महं मुग्गररूवं वा मुसुंढीरूवं वा एवं करवत्तअसिसत्तिह लगया मुसलचकनारायकुंत तोमरसूललगुडजाव भिंडिमालरूवं वा, पुहुत्तं विउब्वेमाणा मुग्गररुवाणि वा जाव भिंडमालरूवाणि वा, ताई संखेज्जाइं नो असंखेज्जाई संबद्धाई नो असंबद्धाई सरिसाई नो असरिसाई विउव्वंति, विउब्वित्ता अन्नमन्नस्स कार्य अभिभवमाणा वेयणं उदीरयन्ति, एवं जाव धूमप्पभाए पुढवीए, छट्ठसत्तमासु णं पुढवीसु नेरइया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org