________________
प्रव० सारोद्धारे तत्त्वज्ञानवि०
१७२ नरकनामगोत्राणि१७३ नरकावा| साः गा. १०७१-७३
॥३१५॥
4%AMSANERUSA
घम्मा १ वंसा २ सेला ३ अंजण ४ रिहा ५ मघा ६ य माघवई ७ । नरयपुढवीण नामाई हुंति रयणाई गोसाई॥७१ ॥ रयणप्पह १ सकरपह २ वालुयपह ३ पंकपहभिहाणाओ४। धूमपह
५ तमपहाओ ६ तह महातमपहा ७ पुढवी ॥७२॥ इह यदनादिकालप्रसिद्धमन्वर्थरहितमभिधानं तत्सर्वकालं यथाकथञ्चिदन्वर्थनिरपेक्षतया नमनात्-प्रवर्तनान्नामेत्युच्यते, यत्पुनः सान्वर्थ तद्गोः-स्वामिधायकवचनस्य त्राणाद्-यथार्थत्वसम्पादनेन पालनाद्गोत्रमिति, तत्र धर्मा वंशा शैला अखना रिष्ठा मघा माधवती चेत्येतानि नरकपृथिवीनां सप्तानां यथाक्रमं नामानि भवन्ति, तथा 'रयण'त्ति एकदेशेन समुदायोपचाराद्रत्नप्रभादीनि गोत्राणि भवन्ति, तत्र प्रभाशब्दो बाहुल्यवाची, ततो रत्नानां-कर्केतनादीनां प्रभा-बाहुल्यं यस्यां सा रत्नप्रभा रत्नबहुलेति भावः, एवं शर्कराणामुपलखण्डानां प्रभा यस्यां सा शर्कराप्रभा, वालुकायाः परुषांसूत्कररूपायाः प्रभा यस्यां सा वालुकाप्रभा, पङ्कस्य प्रभा यस्यां सा पङ्कप्रभा, कर्दमाभद्रव्योपलक्षितेत्यर्थः, धूमस्य प्रभा यस्यां सा धूमप्रभा, धूमाभद्रव्योपलक्षितेति भावः, तमसः प्रभा-बाहुल्यं यत्र सा तमःप्रभा, तथा महातमस:-अतिशायितमसः प्रभा-बाहुल्यं यत्र सा महातमःप्रभा, अपरे तु तमस्तमस्य-प्रकृष्टतमसस्तमस्तमसो वा-अत्यन्ततमसः | प्रभा-बाहुल्यं यस्यां सा तमस्तमःप्रभेति वा मन्यन्त इति १७२ ।। ७१ ॥ ७२ ।। सम्प्रति 'नेरइयाणं आवास'त्ति त्रिसप्तत्यधिकशततमं द्वारमाह
तीसा य १ पन्नवीसा २ पन्नरस ३ दस ४ चेव तिन्नि ५ य हवंति । पंचूण सयसहस्सं ६ पंचेव ७ अणुत्तरा नरया ॥ ७३ ॥
॥३१५॥
Jain Education HIM
For Private Personal use only
ww.jainelibrary.org