________________
विशिष्टबलवीर्यकान्तिहेतुविश्रसापरिणत सरस सुगन्धिविविधपरिपाकागतहृद्यमद्यपरिपूर्णानि स्फुटित्वा स्फुटित्वा मद्यं मुञ्चन्तीति १ तथा भृताङ्गेषु भाजनानि - स्थालप्रभृतीनि भवन्ति, अयमर्थ: - यथा इह मणिकनकरजतादिमयविचित्रभाजनानि स्थालप्रभृतीनि दृश्यन्ते तथैव विश्रसापरिणतैरपरिमितैः स्थालकञ्चोलक कलशकरकादिभिर्भाजनैः फलैरिवोपशोभमानाः प्रेक्ष्यन्ते २ तथा त्रुटिताङ्गेषु सङ्गतानि सम्यग्यथोक्तरीत्या सम्बद्धानि त्रुटितानि - आतोद्यानि बहुप्रकाराणि - ततविततघनशुषिरभेदभिन्नानि फलानीव भवन्ति, तत्र 'ततं - वीणादिकं ज्ञेयं, विततं - पटहादिकम् । घनं तु- कांस्यतालादि, शुषिरं - काहलादिक ।। १ ।।' मिति ३ तथा दीपशिखा ज्योतिषिकनामकाच एते कल्पतरव उद्योतं - प्रकाशं कुर्वन्ति, इदमुक्तं भवति-यथेह स्निग्धं प्रज्ज्वलन्त्यः काञ्चनमणिमय्यो दीपिका उद्योतं कुर्वाणा दृश्यन्ते तद्वद्विश्रसापरिणताः (दीपशिखा कल्पवृक्षाः ) प्रकृष्टोद्योतेन सर्वमुद्योतयन्तो वर्तन्ते ज्योतिषिकास्तु सूर्यमण्डलमिव स्वतेजसा सर्वमप्यवभासयन्तः सन्तीति ४-५ तथा चित्राङ्गेषु माल्यम् - अनेकप्रकारसरससुर मिनानावर्णकुसुमदामरूपं भवति ६ तथा चित्ररसा भोजनार्थाय - युगलधार्मिकाणां भोजननिमित्तं भवन्ति, एतदुक्तं भवति - इहत्यविशिष्टदालि कलमशालिशालनकपकान्नप्रभृतिभ्योऽतीवापरिमितस्वादुतादिगुणोपेतेन्द्रियवलपुष्टिहेतुहृद्यखाद्यभोज्यपदार्थपरिपूर्णैः फलमध्यैर्विराजमानाश्चिरसाः संतिष्ठन्ति ७ तथा मण्यङ्गेषु वराणि श्रेष्ठानि भूषणानि विश्र| सापरिणतानि कटककुण्डलकेयूरादीन्याभरणानि भवन्ति ८ तथा भवनवृक्षेषु गेहाकारनामकेषु कल्पद्रुमेषु भवनानि - विश्रसापरिणामत एव प्रांसुप्राकारोपगूढसुखारोहसोपानपङ्किविचित्रचित्रशाला विततवातायनानेकगुप्तप्रकटापवरककुट्टिमतलाद्यलङ्कृतानि नानाविधानि निकेतनानि भवन्ति ९ तथा अननेषु कल्पपादपेषु धणियं-अत्यर्थ बहुप्रकाराणि विचित्राणि वस्त्राणि विश्रसावशत एवातिसूक्ष्मसुकुमारदेवदूष्यानुकारीणि मनोहारीणि निर्मलभांसि वासांसि समुपजायन्त इति १० । १७१ ।। ६८ । ६९ ॥ ७० ॥ इदानीं 'नरय'त्ति द्विसप्तत्यधिकशततमं द्वारमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org