________________
प्रव० सा-
रोद्धारे तत्त्वज्ञानवि०
१७४ नारकवेदना गा.१०७४
%
C
% A
लोहियकुंथुरूवाई वइरामयतुंडाई गोमयकीडसमाणाई विउब्विचा अन्नमन्नस्स कार्य समतुरंगेमाणा २ खाएमाणा २ सयपोराकिमिया इव चालेमाणा चालेमाणा अन्तो अन्तो अणुप्पविसमाणा वेयणमुदीरयन्ति"ति [ अस्यां भदन्त! रत्नप्रभायां पृथिव्यां नैरयिका यावद् एकत्वमपि प्रभुर्विकुर्वितुं पृथक्त्वमपि प्रभुर्विकुर्वितुं, एकत्वं विकुर्वन्त एकं महत् मुद्गररूपं वा मुषण्डीरूपं वा एवं करपत्रासिशक्तिहलगदामुशल- चक्रनाराचकुन्ततोमरशूललकुटयावमिण्डिमालरूपं वा, पृथक्त्वं विकुर्वन्तो मुद्गररूपाणि वा यावद् मिण्डिमालरूपाणि वा, तानि सङ्ख्येयानि नासङ्ख्येयानि सम्बद्धानि नासम्बद्धानि सदृशानि नासदृशानि विकुर्वन्ति, विकुळ अन्योऽन्यस्य कायममिभवन्तो वेदनामुदीरयन्ते, एवं यावद् धूमप्रभायां पृथ्व्यां, षष्ठीसप्तम्योः पृथ्व्यो रयिका लौहिककुन्थुरूपाणि वनमयतुण्डानि गोमृतककीटसमानानि विकुर्व्य अन्योऽन्यस्य कार्य समतुरङ्गायमाणाः २ खादन्तः २ शतपर्वकृमय इव चालयन्तः २ अन्तरन्तरनुप्रविशन्तो वेदनामुदीरयन्ते ] । अत्र पृथक्त्वशब्दो बहुत्ववाची, ततः पृथक्त्वं-प्रभूतानि मुद्रादीनि भिण्डिमालपर्यन्तानि प्रहरणानि विकुर्वन्तः परिमितानि स्वशरीरसंलग्नानि समानरूपाणि च विकुर्वन्ति, असङ्ख्यातानां खशरीरपृथग्भूतानां विसदृशानां च प्रहरणानां विकुर्वणे तथाभवस्वाभाव्येन सामर्थ्याभावात् , 'समतुरङ्गेमाणा समतुरङ्गेमाणा' इति समतुरङ्गा इवाचरन्तः समतुरङ्गायमाणाः, अश्वा इवान्योऽन्यमारोहन्त इत्यर्थः, शतपर्वकमय इव-इक्षुकमय इव 'चालेमाणा चालेमाणा' शरीरमध्येन सञ्चरन्तः सचरन्त इति ॥ तथा तिसृष्वाद्यासु पृथिवीपु परमाधार्मिकसुरकृताऽपि वेदना भवति, तत्र क्षेत्रस्वभावजा (प्रन्थानं १३०००) रत्नप्रभाशर्कराप्रभावालुकाप्रभासूष्णा, एतन्नारकाणां हि शीतयोनिकत्वेन केवलं हिमप्रतिमशीतप्रदेशात्मकत्वात् योनिस्थानादन्यत्र च सर्वस्यापि भूम्यादेः खदिराङ्गारेभ्योऽप्यत्यन्तप्रतप्तत्वाद्गाढतर उष्णवेदनानुभवः, एवमन्यास्वपि वाच्यं, पङ्कप्रभायां बहुषूपरितनेषु नरकावासेपूष्णा अधस्तनेषु स्तोकेषु च शीता, धूमप्रभायां
%
%
C
॥३
॥
Jan Education Internatione
For Private
Personel Use Only