________________
प्रव० सा-
रोद्धारे तत्त्वज्ञा
नवि०
॥१२॥
समुपजातमायापरिणतिरात्मा स्वयं करोति कायेन संरम्भमिति तृतीयः, तथा लोभकषायग्रस्त आत्मा करोति स्वयं कायेन संरम्भमिति १६७ परिचतुर्थः, एवं कृतेन चत्वारो विकल्पाः कारितेन चत्वारः अनुमत्याऽपि चत्वारः एते द्वादश कायेन लब्धाः, तथा वचसा द्वादश मन
दश मनःणाममेदाः साऽपि द्वादश, एते षट्त्रिंशत्संरम्भेण लब्धाः तथा समारम्भेणापि षट्त्रिंशत् तथा आरम्भेणापि षट्त्रिंशदित्येवमष्टोत्तरं परिणामशतं
गा.१०५९भवतीति ।। ५९ ॥ अथ सङ्कल्पादीनामेव स्वरूपमाह
प्राणातिपातं करोमीति यः सङ्कल्पः-अध्यवसायः स संरम्भः, यः पुनः परस्य परितापकर:-पीडाविधायी व्यापारः स समारम्भः, अपद्रावयतो-जीवितात्परं व्यपरोपयतो व्यापार आरम्भः, एतच्च संरम्भादित्रितयं सर्वेषामपि शुद्धनयानां सम्मतं, अयमर्थः-इह नैगमससहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतलक्षणाः सप्त नयाः, तत्र शुद्धेरन्तर्भूतकारितार्थत्वात् शोधयंति कर्ममलिनं जीवमिति शुद्धाःनैगमसङ्घहव्यवहाररूपास्त्रयः, ते हि अनुयायिद्रव्याभ्युपगमपराः, ततो भवान्तरेऽपि कृतकर्मफलोपभोगोपपत्तेः सद्धर्मदेशनादौ प्रवृत्तियोगतो भवति तात्त्विकी शुद्धिस्तस्मात्त एव शुद्धाः, ऋजुसूत्रशब्दसममिरूद्वैवंभूतस्वरूपास्तु चत्वारो नया अशुद्धाः, ते हि पर्यायमात्रमभ्युपगच्छन्ति पर्यायाणां परस्परमात्यन्तिकं भेदं च, एवं च सति कृतविप्रणाशादिदोषप्रसङ्गः, तथाहि-मनुष्येण कृतं कर्म किल देवो भुके, मनुष्यावस्थातश्च देवावस्था मिन्ना, ततो मनुष्यकृतकर्मविप्रणाशो, मनुष्येण सता तस्योपभोगाभावात् , देवस्य च फलोपभोगोऽकुताभ्यागमः, देवेन सता तस्य कर्मणोऽकरणात् , कृतप्रणाशादिदोषपरिज्ञाने च न कोऽपि धर्मश्रवणेऽनुष्ठाने वा प्रवर्तते इति मिथ्यात्वशुद्ध्यभावः, तदभावाच्च न ते शुद्धा इति, अथवा शुद्धनयानां चेत्यत्र प्राकृतत्वात्पूर्वस्याकारस्य लोपो द्रष्टव्यः, ततः सर्वेषामप्यशुद्ध
॥१२॥ नयानामेतत्संरम्भादित्रितयं सम्मतं न तु शुद्धानामिति, तत्र नैगमसङ्ग्रव्यवहाररूपा आद्यास्त्रयो नया अशुद्धा व्यवहाराभ्युपगमपर
2-%C4%A4%ERA
Jain Education International
For Private
Personel Use Only
www.jainelibrary.org