________________
भू:- पृथ्वी जलं - आपः ज्वलन:-अभिः अनिलो वायुः वनस्पतयः - प्रतीताः द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाश्चेत्येतैर्भेदैर्नविविधा जीवाः, ते च मनोवचनकाय लक्षणैस्त्रिभिः करणैर्गुणिताः सप्तविंशतिर्भवन्ति, तथा सा - सप्तविंशतिः करणकारणानुमतिभिस्ताडिता-गुणिता एकाशीतिर्भवति, सैवैकाशीतिरती तवर्तमानभविष्यलक्षणैस्त्रिभिः कालैर्गुणिता द्वे शते त्रिचत्वारिंशदधिके भवतः, अयमत्र भावार्थ:- पृथिव्यादीनां नवानामपि जीवानां मनसा वचनेन कायेन च प्रत्येकं वधस्य सम्भवात् सप्तविंशतिर्भेदाः, तत्रापि पृथि व्यादिवधं मनः प्रभृतीभिः कश्चित्स्वयं करोति कचिदन्येन कारयति कश्चित्पुनरन्यं कुर्वन्तमनुमन्यते इति प्रत्येकं करणकारणानुमतिसम्भवेनैकाशीतिर्भेदाः, ते च प्रत्येकं कालत्रयेऽपि सम्भवन्तीति द्वे शते त्रिचत्वारिंशदधिके प्राणातिपातभेदा इति १६६ ॥ ५७ ॥ ५८ ॥ | सम्प्रति 'परिणामाणं अद्भुत्तरसयं' ति सप्तषष्ट्यधिकशततमं द्वारमाह
संकष्पाइतिएण ३ मणमाईहिं ३ तहेव करणेहिं ३ । कोहाइच उक्केणं ४ परिणामेऽट्ठोत्तरसयं च ॥५९॥
inप्पो संरंभ १ परितावकरो भवे समारंभो २ । आरंभ ३ उद्दवओ सुनयाणं च सधेसिं ॥ ६० ॥ इह सङ्कल्पशब्देन संरम्भ उपलक्ष्यते पर्यायत्वात्, आदिशब्दात्समारम्भारम्भपरिग्रहः, ततो वक्ष्यमाणस्वरूपाः संरम्भसमारम्भारम्भास्त्रयो मनोवचनकायैर्गुण्यन्ते जाता नव, तथा 'करणेहिं' ति बहुवचननिर्देशात्कारणानुमतिपरिग्रहः, ततः पूर्वोक्ता नव करणकारणानुमतित्रिकेण गुण्यन्ते जाताः सप्तविंशतिः, साऽपि क्रोधादिचतुष्केण - क्रोधमानमायालो भलक्षणैश्चतुर्भिः कषायैर्गुण्यते जातं 'परिणामे' पष्ठी सप्तम्योरर्थं प्रत्यभेदात् परिणामानां चित्तादिपरिणतिविशेषाणामष्टोत्तरं शतमिति, इदमत्र तात्पर्य - उद्भूत क्रोधपरिणाम आत्मा करोति स्वयं कायेन संरम्भमित्येको विकल्पः, तथा आविर्भूतमानपरिणाम आत्मा स्वयं करोति कायेन संरम्भमिति द्वितीयः, तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org