________________
त्वात् , उपरितनास्तु चत्वारः शुद्धा नैश्चयिकत्वादिति, तदिदमत्र तात्पर्य-संरम्भसमारम्भारम्भलक्षणं त्रितयं नैगमादीनामेव त्रयाणां सम्मतं, व्यवहारपरतया तेषां मतेन त्रितयस्यापि सम्भवात् , ऋजुसूत्रादयस्तु हिंसाविचारप्रक्रमे न बाह्यवस्तुगतां हिंसामनुमन्यन्ते, यतस्तन्मतेनात्मैव तथाऽध्यवसायपरिकलितो हिंसा न बाह्यमनुष्यादिपर्यायविनाशनं, 'आया चेव उ हिंसा' इति वचनात् , ततः संरम्भ एव हिंसा, न समारम्भो नाप्यारम्भः, ऋजुसूत्रादीनां मतेनेति १६७ ॥६०॥ सम्प्रति 'बंभमट्टदसभेयं ति अष्टषश्यधिकशसतमं द्वारमाह| दिवा कामरइसुहा तिविहं तिविहेण नवविहा विरई । ओरालियाउवि तहा तं बंभं अट्ठदस
भेयं ॥ ६१॥ दिवि भवं दिव्यं तच वैक्रियशरीरसम्भवं काम्यन्त इति कामा-विषयास्तेषु रतिः-अभिष्वङ्गस्तस्मात्सुखं कामरतिसुखं सुरतसुखमिति भावः तस्माद्दिव्यात्कामरतिसुखात् त्रिविधं यथा भवति कृतकारितानुमतिमिरित्यर्थः त्रिविधेन-मनोवाकायलक्षणेन करणेन नवविधा विरतिः, एवमौदारिकादपि तिर्यमनुष्यसम्भवात् तथा-त्रिविधंत्रिविधेन नवविधा विरतिः, इत्येवं तद्-ब्रह्मचर्यमष्टादशभेदं भवति, इयमत्र भावना-मनसाऽब्रह्म न करोमि न कारयामि कुर्वन्तमपि परं नानुमन्ये एवं वचसा कायेन चेति दिव्ये ब्रह्मणि नव भेदाः, एवमौदारिकेऽपीत्यष्टादशेति १६८ ॥ ६१ ॥ सम्प्रति 'कामाण चउबीसं'त्येकोनसप्तत्यधिकशततमं द्वारमाह
कामो चउवीसविहो संपत्तो खलु तहा असंपत्तो। चउदसहा संपत्तो दसहा पुण होअसंपत्तो ॥६२॥ तत्थ असंपत्तेऽत्था १ चिंता २ तह सद्ध ३ संभरण ४ मेव । विक्कवय ५ लज्जनासो ६
hkkkkk
माको
Jain Education
mana
For Private & Personel Use Only
Erww.jainelibrary.org