________________
गृहीतः, क्षेत्रतो मार्गणायां तस्योपादानात् तथा च तत्सूत्रं - 'जे से साइए सपज्जवसिए मिच्छादिट्ठी से जहन्नेणं अंतोमुहुत्तं उकोसेणं अनंतं कालं, अनंताओ उसप्पिणीओसप्पिणीओ कालओ, खेत्तओ अवडूं पोग्गलपरियहं देसूण मित्यादि [ यः स सादिसपर्यवसितो | मिध्यादृष्टिः स जघन्येनान्तर्मुहूर्त्तमुत्कष्टेनानन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽपार्थ पुद्गलपरावर्त्त देशोनं ] ततोऽन्यत्रापि यत्र विशेषनिर्देशो नास्ति तत्र पुद्गलपरावर्तग्रहणे क्षेत्रपुद्गलपरावर्ती गृह्यते इति सम्भाव्यते, तत्त्वं तु बहुश्रुता एव विदन्तीति १६२ ।। ५२ ।। इदानीं 'पन्नरस कम्मभूमी 'त्ति त्रिषष्ट्यधिकशततमं द्वारमाह
भरहाइ ५ विदेहाई ५ एरवयाई च ५ पंच पत्तेयं । भन्नंति कम्मभूमी धम्मजोग्गा उ पन्नरस ॥५३॥ भरतानि 'विदेहाई' ति महाविदेहा ऐरवतानि च प्रत्येकं पञ्च पञ्च भण्यन्ते पञ्चदश कर्मभूमयः, एतासामेव स्वरूपमाह - धर्मस्य - श्रुतचारित्ररूपस्य योग्या - उचितास्तदनुष्ठानस्य तत्रैव सम्भवात्, अयमर्थः - कर्म - कृषिवाणिज्यादि मोक्षानुष्ठानं वा तत्प्रधाना भूमयः कर्मभूमयः ताश्च पञ्चदश भवन्ति, तद्यथा - एकं भरतक्षेत्रं जम्बूद्वीपे द्वे धातकीखण्डे द्वे च पुष्करवरद्वीपार्धे एवं भरतानि पञ्च, एवं महाविदेहा ऐरवतानि च प्रत्येकं पञ्च पश्चेति १६३ ॥ ५३ ॥ इदानीं 'अकम्मभूमीओ तीस'त्ति चतुःषष्ट्यधिकशततमं द्वारमाह-हेमवयं १ हरिवास २ देवकुरू ३ तह य उत्तरकुरूवि ४ । रम्मय ५ एरन्नवयं ६ इय छन्भूमी उ पंचगुणा ॥ ५४ ॥ एया अकम्मभूमीउ तीस सया जुअलधम्मजणठाणं । दसविहकप्पम हद्दुमसमुत्थभोगा पसिद्धाओ ॥ ५५ ॥ 'हेमवय' मित्यादिगाथाद्वयं, हैमवतं हरिवर्ष देवकुरवस्तथा उत्तरकुरवो रम्यकमैरण्यवतं चेत्येताः षडूमयः पञ्चभिर्गुणिताचिंशदुक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org