________________
D
1
मा. रोद्धारे
पुद्रलपरा
वत्तः
नवि०
A
*-
शब्दार्थः ?, उच्यते, तिष्ठत्यस्मिन् जीव इति स्थानं, अनुभागबन्धस्य स्थानमनुभागबन्धस्थानं, एकेन काषायिकेणाध्यवसायेन गृहीतानां
कर्मपुद्गलानां विवक्षितैकसमयबद्धरससमुदायपरिमाणमित्यर्थः, तानि चानुभागबन्धस्थानान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि, तेषां माचानुभागबन्धस्थानानां निष्पादका ये कपायोदयरूपा अध्यवसायविशेषास्तेऽप्यनुभागबन्धस्थानानीत्युच्यन्ते, कारणे कार्योपचारात् ,
तेऽपि चानुभागबन्धाध्यवसाया असङ्ख्येयलोकाकाशप्रदेशप्रमाणा इति ॥ ५० ॥ ५१ ॥ अथ बादरं सूक्ष्मं च भावपुद्गलपरावर्तमाह
'ताणी'त्यादि, वानि-अनुभागबन्धाध्यवसायस्थानानि सर्वाण्यप्यसयेयलोकाकाशप्रदेशप्रमाणानि म्रियमाणेन यदा जीवेनैकेन क्रमेण४ आनन्तर्येणोत्क्रमेण च-पारम्पर्येण स्पृष्टानि भवन्ति एष बादरभावपुद्गलपरावर्तः, किमुक्तं भवति ?-यावता कालेन क्रमेणोत्क्रमेण वा
सर्वेष्वप्यनुभागबन्धाध्यवसायेषु वर्तमानो मृतो भवति तावान् कालो बादरभावपुद्गलपरावर्तः, सूक्ष्मः पुनः भावपुद्गलपरावर्तो बोद्धव्यो यदा क्रमेण-परिपाट्या सर्वाण्यप्यनुभागबन्धाध्यवसायस्थानानि स्पृष्टानि भवन्ति, इयमत्र भावना-कश्चिजन्तुः सर्वजघन्ये कषायोदयरूपेऽध्यवसाये वर्तमानो मृतस्ततो यदि स एव जन्तुरनन्तेऽपि काले गते सति प्रथमादनन्तरे द्वितीयेऽध्यवसायस्थाने वर्तमानो म्रियते तदा तन्मरणं गण्यते न शेषाण्युत्क्रमभावीन्यनन्तान्यपि मरणानि, ततः कालान्तरे भूयोऽपि यदि द्वितीयस्मादनन्तरे तृतीयेऽध्यवसायस्थाने वर्तमानो म्रियते तदा तृतीयं मरणं गण्यते न शेषाण्यपान्तरालभावीन्यनन्तान्यपि मरणानि, एवं क्रमेण सर्वाण्यनुभागबन्धाध्यवसायस्थानानि यावता कालेन मरणेन स्पृष्टानि भवन्ति तावान् कालविशेषः सूक्ष्मभावपुद्गलपरावर्तः । इह च बादरे प्ररूपिते सति सूक्ष्मः सुखेनैव शिष्यैः समधिगम्यते इति बादरपुद्गलपरावर्तप्ररूपणा क्रियते, न पुनः कोऽपि बादरपुद्गलपरावर्तः कचिदपि सिद्धान्तप्रदेशे प्रयोजनवानुपलभ्यत इति, तथा सूक्ष्माणामपि चतुर्णा पुद्गलपरावर्तानां मध्ये जीवाभिगमादौ पुद्गलपरावर्तः क्षेत्रतो बाहुल्येन
%A4%
*
-*
%E0
Jain Education in
For Private Personal Use Only
niw.jainelibrary.org