SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ सूक्ष्मः कालपुद्गलपरावर्तः ॥ ४८॥ ४९ ॥ साम्प्रतं द्विविधमपि भावपुद्गलपरावर्त विवक्षुः प्रथमं तावदनुभागबन्धस्थानपरिमाणमाह -'एगसमयमी'त्यादिगाथाद्वयं, लोके इह-जगति एकस्मिन् समये ये पृथिवीकायिकादयो जीवाः 'सुहुमागणिजिया उ'त्ति सप्तम्यर्थत्वात्प्रथमायाः सूक्ष्माग्निजीवेषु-सूक्ष्मनामकर्मोदयवर्तिषु तेजस्कायिकजीवेषु प्रविशन्ति-उत्पद्यन्ते ते भवन्त्यसोयाः, असङ्ख्येयत्वमेवाह-असङ्ख्येयलोकप्रदेशतुल्या:-असङ्ख्येयलोकाकाशप्रदेशराशिप्रमाणाः, इह च विजातीयजीवानां जात्यन्तरतयोत्पत्तिः प्रवेश उच्यते, इत्थमेव प्रज्ञप्तौ प्रवेशनकशब्दार्थस्य व्याख्यातत्वात् , ततस्ते जीवाः पृथिव्यादिभ्योऽन्यकायेभ्यो बादरतेजस्कायेभ्यश्च सूक्ष्मतेजस्कायतयोत्पद्यन्ते ते इह गृह्यन्ते, ये पुनः पूर्वमुत्पन्नाः(सूक्ष्म)स्तेजस्कायिकाः पुनर्मृत्वा तेनैव पर्यायेणोत्पद्यन्ते ते न गृह्यते, तेषां पूर्वमेव प्रविष्टत्वात् , ततः सर्वस्तोका एकसमयसमुत्पन्नसूक्ष्मानिकायिकाः, 'तत्तो'त्ति ततः-तेभ्यः एकसमयोत्पन्नसूक्ष्माग्निकायिकेभ्योऽसङ्ख्यगुणिता-असङ्ख्येयगुणा अग्निकायाः पूर्वोत्पन्नाः सर्वेऽपि सूक्ष्माग्निकायिकजीवाः, कथमिति चेदुच्यते-एकः सूक्ष्माग्निकायिको जीवः समुत्पन्नोऽन्तर्मुहूर्त | जीवति, एतावन्मात्रायुष्कत्वात्तेषां, तस्मिंश्चान्तर्मुहूर्ते ये समयास्तेषु प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशप्रमाणाः सूक्ष्माग्निकायिकाः समुत्प-8 द्यन्ते, अतः सिद्धमेकसमयोत्पन्नसूक्ष्माग्निकायिकेभ्यः सर्वेषां पूर्वोत्पन्नसूक्ष्माग्निकायिकानामसङ्ख्येयगुणत्वं, तेभ्योऽपि सर्वसूक्ष्माग्निकायिकेभ्यस्तेषामेव प्रत्येकं कायस्थितिः-पुनः पुनस्तत्रैव काये समुत्पत्तिलक्षणाऽसङ्ख्यातगुणा, एकैकस्यापि सूक्ष्माग्निकायिकस्यासयेयोत्सर्पिण्यवसर्पिणीप्रमाणायाः कायस्थितेरुत्कर्षतः प्रतिपादितत्वादिति, तस्या अपि कायस्थितेः सकाशात्संयमस्थानान्यनुभागबन्धस्थानानि च प्रत्येकमसोयगुणानि, कायस्थिताव सङ्ख्येयगुणानां स्थितिबन्धानां भावात् , एकैकस्मिंश्च स्थितिबन्धेऽसङ्ख्येयानामनुभागबन्धस्थानानां सद्भावादिति, संयमस्थानान्यप्यनुभागबन्धस्थानैस्तुल्यान्येवेति तेषामुपादानं, तत्स्वरूपं चाप्रे वक्ष्यामः । अथानुभागबन्धस्थानानीति कः| Jain Educational For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy