SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥ ३०९ ॥ Jain Education स गण्यते, एवमानन्तर्यपरम्परया यावता कालेन सर्वलोकाकाशप्रदेशा मरणेन स्पृष्टा भवन्ति तावान् कालविशेषः सूक्ष्मक्षेत्रपुद्गलपरावर्तः, अन्ये तु व्याचक्षते - येष्वा काशप्रदेशेष्ववगाढो जीवो मृतस्ते सर्वेऽप्याकाशप्रदेशा गण्यन्ते, न पुनस्तन्मध्यवर्ती विवक्षितः कश्चिदेक एवाकाशप्रदेश इति ॥ ४५ ॥ ४६ ॥ अथ बादरं कालपुद्गलपरावर्तमाह – 'ओसप्पी' त्यादि, अवसर्पिण्या उपलक्षणत्वादुत्सर्पिण्याश्च यावन्तः समयाः - परमसूक्ष्माः कालविभागास्ते यदा एकजीवेन निजमरणेन क्रमेणोत्क्रमेण वा स्पृष्टा भवन्ति तदा कालपुद्गलपरावर्ती भवेत् स्थूलः, अयमर्थः- यावता कालेनैको जीवः सर्वानप्यवसर्पिण्युत्सर्पिणीसमयान् क्रमेणोत्क्रमेण वा मरणेन व्याप्तान् करोति तावान् कालविशेषो बादरः कालपुद्गलपरावर्तः || ४७ || सूक्ष्मं कालपुद्गलपरावर्तमाह – 'सुहमो' इत्यादिगाथाद्वयं, सूक्ष्मः पुनः कालपुद्गलपरावर्तो भवति, तद्यथा - एकः कश्चिज्जीवोऽवसर्पिण्या: प्रथमे समये यदि मृतो भवति पुनरपि तस्यावसर्पिणीप्रथमसमयस्यानन्तरे द्वितीये समये यदि म्रियते, एवं तरतमयोगेन - अनन्तरानन्तरसमयमरणलाभलक्षणेन एतेषु सर्वेष्वप्यवसर्पिण्युत्सर्पिणीसम्बन्धिषु सम| येषु यदि प्राणपरित्यागं करोति तदा सूक्ष्मः कालपुद्गलपरावर्तो भवति, इहापि समयान् अनुक्रमेणैव - प्रथमसमयानुगतसमयपरम्परापरिपाट्यैव गणयेत्, न पुमः पूर्वस्पृष्टान् व्यवहितान् वा समयान् गणयेदिति, अत्रापीयं भावना - इहावसर्पिणीप्रथमसमये कश्चिज्जीवो मृत्युमुपगतः, ततो यदि समयोनविंशतिसागरोपमकोटीकोटीभिरतिक्रान्ताभिर्भूयोऽपि स जन्तुरवसर्पिणीद्वितीयसमये म्रियते तदा स द्वितीयः समयो मरणस्पृष्टो गण्यते, शेषास्तु समया मरणस्पृष्टा अपि सन्तो न गण्यन्ते, यदि पुनस्तस्मिन्नवसर्पिणीद्वितीयसमये न म्रियते किन्तु समयान्तरे तदा सोऽपि न गृह्यते, किन्त्वनन्तास्ववसर्पिण्युत्सर्पिणीषु गतासु यदाऽवसर्पिणीद्वितीयासमये एव मरिष्यति तदा स समयो गण्यते, एवमानन्तर्य प्रकारेण यावता कालेन सर्वेऽप्युत्सर्पिण्यवसर्पिणीसमया मरणव्याप्ता भवन्ति तावान् कालविशेषः For Private & Personal Use Only पुगलपुरावर्त्तः ॥ ३०९ ॥ Www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy