________________
66
विवक्षितैकशरीर व्यतिरेकेणान्यशरीरतया ये परिभुज्य २ परित्यज्यन्ते ते न गण्यन्ते, किन्तु प्रभूतेऽपि काले गते सति ये च विवक्षितैकशरीररूपतया परिणम्यन्ते त एव परमाणवो गण्यन्त इति, प्रथमपक्षाभिप्रायेण तु औदारिकादिसप्तकमध्यादन्यतमेनैकेन केनचित्पूर्वोक्तरीत्या सर्वपुद्गलस्पर्शने सूक्ष्मपुद्गलपरावर्ती भवतीति ॥ ४३ ॥ अथ बादरक्षेत्र पुद्गलपरावर्तमाह – 'लोगे' त्यादि, लोकस्य - चतुर्दशरज्ज्वात्मकस्याकाशप्रदेशा- निर्विभागा नभोभागा यदा त्रियमाणेनात्र-जगति जीवेन स्पृष्टा व्याप्ताः क्रमेण तदनन्तरभावलक्षणेनोत्कमेण वा - अर्दवितर्दमरणाक्रान्तक्षेत्र प्रदेशरूपेण तदा क्षेत्र पुद्गलपरावर्तो भवेत् स्थूलो बादरः, किमुक्तं भवति ? - यावता कालेनैकेन जीवेन क्रमेण उत्क्रमेण वा यत्र तत्र म्रियमाणेन सर्वेऽपि लोकाकाशप्रदेशा मरणे संस्पृष्टाः क्रियन्ते स तावान् कालविशेषो बादरः क्षेत्रपुद्गलपरावर्तः ॥ ४४ ॥ सम्प्रति सूक्ष्मक्षेत्र पुद्गल परावर्तमाह - ' जीवो' इत्यादिगाथाद्वयं एकः कश्चिज्जन्तुरनन्तभवभ्रमणपरो यदा एकस्मिन् क्षेत्रप्रदेशेऽधिगते- प्राप्ते सति, तत्र स्थित इत्यर्थः, कल्पनया न परमार्थेन, असङ्ख्यातप्रदेशावगाढत्वाज्जीवस्य, म्रियते प्राणान् परित्यजति | पुनरपि तस्य- प्रथममरणस्पृष्टप्रदेशस्यानन्तरे - अव्यवहिते द्वितीये प्रदेशे यदि म्रियते पुनरप्यनन्तरे तृतीये प्रदेशे यदि म्रियते, एवं तर, तमयोगेन - अनन्तरानन्तरप्रदेशमरण लाभ लक्षणेन सर्वस्मिन्नपि क्षेत्रे - लोकाकाशे मृतो भवति तदा सूक्ष्मः क्षेत्रपुद्गलपरावर्तो ज्ञेयः अत्र च क्षेत्रप्रदेशान् अनुक्रमेणैव - प्रथमप्रदेशानुबद्धप्रदेशपरम्परापरिपाट्चैव गणयेत् न पुनः पूर्वस्पृष्टान् व्यवहितान् वा प्रदेशान् गणयेत्, इयमत्र भावना - यद्यपि जीवस्यावगाहना जघन्याऽप्यसङ्ख्येयप्रदेशात्मिका भवति तथापि विवक्षिते कस्मिंश्चिदेशे त्रियमाणस्य विवक्षितः कश्चिदेकः प्रदेशोऽवधिभूतो विवक्ष्यते, ततस्तस्मात्प्रदेशादन्यत्र प्रदेशान्तरे ये नभः प्रदेशा मरणेन व्याप्यन्ते ते न गण्यन्ते, किन्त्वनन्ते|ऽपि काले गते सति विवक्षितात्प्रदेशादनन्तरो यः प्रदेशो मरणेन व्याप्तो भवति स गण्यते, तस्मादप्यनन्तरो यः प्रदेशो मरणे व्याप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org