SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ अव० सारोद्धारे तत्त्वज्ञा नवि० ॥ ३०८ ॥ दारिकादिसप्तकस्वभावत्वेन परिभुज्य २ परित्यक्तास्तावान् कालविशेषो बादरद्रव्यपुद्गलपरावर्तः, आहारकशरीरं चोत्कृष्टतोऽप्येकजीवस्य वारचतुष्टयमेव सम्भवति ततस्तस्य पुद्गलपरावर्त प्रत्यनुपयोगान्न ग्रहणं कृतमिति ॥ ४१ ॥ अथ मतान्तरेण द्रव्यपुद्गलपरावर्तमाह'अहवे' त्यादि, अथवा - अन्येषामाचार्याणां मतेनौदारिकवैक्रिय तैजस कार्मणशरीरचतुष्टयरूपतया निःशेषद्रव्यग्रहणे- एकजीवेन सर्वलो - कपुद्गलानां परिभुज्य २ परित्यजनेऽयं बादर:- स्थूलः पुद्गलपरावर्तो भवति, किंविशिष्टः ? - द्रव्यादिः, द्रव्यशब्द आदिर्यस्य पुद्गलपरावर्तस्य स द्रव्यादिः, द्रव्यपुद्गलपरावर्त इत्यर्थः ॥ ४२ ॥ सूक्ष्मं द्रव्यपुद्गलपरावर्तमाह – 'दधे' इत्यादि, अथ द्रव्ये - द्रव्यविषयः सूक्ष्मः पुद्गलपरावर्तो भवति यथा औदारिकादिशरीराणामेकेन - अन्यतमेन शरीरेण एको जीवः संसारे परिभ्रमन् सर्वानपि पुद्गलान् स्पृष्ट्वा - परिभुज्य २ मुच्चति, इयमत्र भावना - यावता कालेन सर्वेऽपि लोकाकाशभाविनः परमाणव औदारिकाद्यन्यतमैक विवक्षितशरीररूपतया परिभुज्य २ निष्ठां नीयन्ते तावान् कालविशेषः सूक्ष्मद्रव्यपुद्गलपरावर्तः, पुद्गलानां - परमाणूनामौदारिकादिरूपतया विवक्षितैकशरीररूपतया वा सामस्त्येन परावर्तः - परिणमनं यावति काले स तावान् काल: पुद्गलपरावर्त्तः, इदं च शब्दस्य व्युत्पत्तिनिमित्तं, अनेन च व्युत्प | त्तिनिमित्तेन स्वैकार्थसमवायिप्रवृत्तिनिमित्तमनन्तोत्सर्पिण्यवसर्पिणीमानस्वरूपं लक्ष्यते, तेन क्षेत्रपुद्गलपरावर्त्तादौ पुद्गलपरावर्तनाभावेऽपि प्रवृत्तिनिमित्तस्यानन्तोत्सर्पिण्यवसर्पिणीमानस्वरूपस्य विद्यमानत्वात्पुद्गलपरावर्त्तशब्दः प्रवर्तमानो न विरुद्ध्यते, यथा गोशब्दः पूर्वं गमने व्युत्पादितः, तेन च गमनेन व्युत्पत्तिनिमित्तेन स्वैकार्थसमवायिखुरककुदलाङ्गूलसास्नादिमत्त्वरूपं प्रवृत्तिनिमित्तमुपलक्ष्यते, ततो गमनरहितेऽपि गोपिण्डे प्रवृत्तिनिमित्तसद्भावाद्गोशब्दः प्रवर्तते इति, 'अणुक्कमेणं नणु गणेज'त्ति एतांश्च पुद्गलान् | अनुक्रमेण - विवक्षितैकशरीरस्पृष्टतारूपया परिपाट्या ननु निश्चितं गणयेत् इदमत्र तात्पर्य - एतस्मिन् सूक्ष्मे द्रव्यपुद्गलपरावर्ते Jain Education International For Private & Personal Use Only १६२ पुत्रलपरावर्त्तः ॥ ३०८ ॥ www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy