________________
दिताः पुद्गलपरावर्तो ज्ञातव्यः, ते च पुद्गलपरावर्ता अनन्ता अतीताद्धा, अनन्तपुद्गलपरावर्तात्मकोऽतीतः काल इत्यर्थः, अतीताद्धापेक्षया चानन्तगुणोऽनागताद्धा भविष्यत्काल इत्यर्थः, ननु भगवत्यां 'अणागयद्धा णं तीयद्धाओ समयाहिय'त्ति सूत्रेऽनागतकालोऽतीतकालात्समयाधिक उक्तः, तथाहि-"अतीतानागतौ कालावनादित्वानन्तत्वाभ्यां तुल्यौ, तयोश्च मध्ये भगवतः प्रश्नसमयो वर्तते, स चाविनष्टत्वेनातीते न प्रविशतीयविनष्टसाधादनागते क्षिप्तः, ततोऽतीतकालादनागताद्धा समयाधिको भवती"ति, इह पुनरतीताद्धातोऽनागताद्धाऽनन्तगुणाऽमिहिता तत्कथं न विरोधः?, अत्रोच्यते, यथा अनागताद्धाया अन्तो नास्ति एवमतीताद्धाया आदिरित्युभयोरप्यन्ताभावमात्रेण तत्र तुल्यत्वं विवक्षितमिति न दोषः, यदि च अतीतानागताद्धे वर्तमानसमये समे स्यातां ततः समयातिक्रमेऽनागताद्धा समयेनोना स्यात् ततो व्यादिभिः समयैः, एवं च समत्वं नास्ति, तस्मादतीताद्धायाः सकाशादनागताद्धाऽनन्तगुणेति स्थितं, अत एवानन्तेनापि कालेन गतेन नासौ क्षीयत इति, वर्तमानैकसमयरूपा वर्तमानाद्धाऽप्यस्ति, सा च सूक्ष्मत्वान्नेह पृथक्प्रतिपादितेति ॥ ३९ ॥ पुद्गलपरावर्तभेदानभिधातुमाह-पोग्गले'त्यादि, इह-अस्मिन् पारमेश्वरप्रवचने पुद्गलपरावों द्रव्यादितो-द्रव्यक्षेत्रकालभावभेदतश्चतुर्विधः-1 चतुष्प्रकारो ज्ञातव्यः, तद्यथा-द्रव्यपुद्गलपरावर्तः क्षेत्रपुद्गलपरावर्तः कालपुद्गलपरावतों भावपुद्गलपरावर्तश्च, पुनरप्येकैकः पुद्गलपरावर्तः स्थूलेतरभेदाभ्यां-बादरसूक्ष्मत्वभेदेन द्विधा-बादरः सूक्ष्मश्च, स च यथा भवति तथा निशमयत-शृणुतेति ॥ ४० ॥ तत्र बादरद्रव्यपुद्गलपरावर्तमाह-ओराले'त्यादि, एकेन जन्तुना विकटां भवाटवीं पर्यटता अनन्तेषु भवेषु औदारिकवैक्रियतैजसकामजभाषाऽऽनप्राणमनोलक्षणपदार्थसप्तकरूपतया चतुर्दशरज्ज्वात्मकलोकवर्तिनः सर्वेऽपि पुद्गलाः स्पृष्ट्वा-परिभुज्य यावता कालेन मुक्ता भवन्ति एष बादरद्रव्यपुद्गलपरावर्तः, किमुक्तं भवति ?-यावता कालेनैकेन जीवेन सर्वेऽपि जगद्वर्तिनः परमाणवो यथायोगमौ
Jain Education
X
For Private
Personal Use Only