________________
धनुःशतप्रभृति सप्तहस्तान्तं तनुमानमायुरपि पूर्वकोटिप्रमाणं परिहीनश्च कल्पवृक्षादिपरिणामः, दुष्षमायामनियतं देहमानमायुरप्यनियतं वर्षशतादर्वाक् पर्यन्ते विंशतिवर्षाणि परमायुः शरीरोच्छ्रयो हस्तद्वयं औषधिवीर्यपरिहाणिश्चानन्तगुणा, अतिदुष्षमायामप्यनियतं शरीरोच्छ्रयादि सर्व पर्यन्ते तु हस्तप्रमाणं वपुः षोडश वर्षाणि परमायुर्निरवशेषौषधिपरिहानिश्चेति, एवमन्यदप्येतत्स्वरूपं समयात् समवसेयमिति १६० ॥ ३५ ॥ ३६ ॥ ३७ ॥ इदानीं 'उस्सप्पिणि'त्ति एकषष्ट्यधिकशततमं द्वारमाह
अवसप्पिणीव भागा हवंति उस्सप्पिणीइवि छ एए । पडिलोमा परिवाडी नवरि विभाएसु नायवा ।। ३८ ।
'अवसप्पिणी'त्यादि, उत्सर्पति-वर्धतेऽरकापेक्षया उत्सर्पयति वा भावानायुष्कादीन् वर्धयतीत्युत्सर्पिणी, अस्यामध्येत एवावसर्पिण्या: सम्बन्धिनः सुषमसुषमादयो षट् कालविभागा भवन्ति, नवरं - केवलं विभागेषु - अरकेषु प्रतिलोमा - विपरीता परिपाटी - आनुपूर्वी ज्ञातव्या, अयमर्थ:-अवसर्पिण्यां सुषमसुषमाद्या दुष्षमदुष्पमान्ताः षढरका उक्ताः उत्सर्पिण्यां तु दुष्षमदुष्षमाद्याः सुषमसुषमापर्यन्ताः षडरका भवन्तीति, तदेवं विंशतिसूक्ष्माद्धासागरोपमकोटी कोटी प्रमाणद्वादशा रकमेतदव सर्पिण्युत्सर्पिण्योः कालचक्रं पञ्चसु भरतेस्वैरवतेषु च पञ्चखनाद्यन्तं परिवर्तते, यथाऽहोरात्रे वासरो रजनी वा न शक्यते निरूपयितुमादित्वेनान्तत्वेन वा अनादित्वादहोरात्रचक्रप्रवृत्तेस्तथेदमपीति १६१ ॥ ३८ ॥ इदानीं 'दधे खेत्ते काले । भावे पोग्गलपरियट्टो'त्ति द्विषष्ट्यधिकशततमं द्वारमाहओसपिणी अनंता पोग्गल परियहओ मुणेयवो । तेऽणंता तीयद्धा अणागयद्धा अनंतगुणा ॥ ३९ ॥ पोग्गल परियहो इह दवाइचउधिहो मुणेयधो । थूलेयरभेएहिं जह होइ तहा निसामेह
Jain Education International
For Private & Personal Use Only
%% %
www.jainelibrary.org