________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ ३०६ ॥
1296219
৬
प्रभूतकालतरणीयत्वादतराणि - सागरोपमाणीत्यर्थः सूक्ष्माद्धासागरोपमाणां सम्पूर्णा दश कोटी कोट्यो भवन्ति, सूक्ष्माद्धासागरोपमाणां दशभिः कोटीकोटीभिर्निष्पन्नोऽवसर्पिणीलक्षणः काल बिशेषोऽवगन्तव्य इति तात्पर्यार्थः, तस्यां चावसर्पिण्यां कालस्य भागा- विच्छेदाः सुषमसुपमादयः षडेव भवन्ति ।। ३३ ।। तानेवाह - 'सुसमेत्यादि, शोभनाः समाः - वर्षाण्यस्यामिति सुषमा अत्यन्तं सुषमा सुषमासुषमा, सर्वथा दुष्षमानुभावरहित एकान्तसुषमारूपोऽवसर्पिण्या: प्रथमो भागः, द्वितीया सुषमा तृतीया पुनः सुषमदुष्षमा भवति, दुष्टाः समा अस्यां सा दुष्षमा सुषमा चासौ दुष्पमा च सुषमदुष्षमा, सुषमानुभावबहुला अल्पदुष्षमानुभावेत्यर्थः, चतुर्थी दुष्षमसुषमा, दुष्षमा चासौ सुषमा च दुष्षमसुषमा, दुष्षमानुभावबहुला अल्पसुषमानुभावेत्यर्थः, पञ्चमी दुष्षमा, षष्ठी त्वतिशयेन दुष्षमा अतिदुष्षमा, सर्वथा सुषमानुभावरहिता दुष्षमदुष्षमेत्यर्थः ॥ ३४ ॥ अथैतेषामेव सुषमसुषमादीनां षण्णामरकाणां प्रमाणमाह - 'सुसमसुसेत्यादि, सुषमसुषमायां काल:- कालप्रमाणं सागरोपमाणां चतस्रः कोटिकोटयो भवन्ति, सुषमायां तिस्रः सागरोपमकोटिकोटयः, सुषमदुष्षमायां द्वे सागरोपमकोटिकोट्यौ, एका-एकसङ्ख्या सागरोपमकोटिकोटिर्द्विचत्वारिंशता वर्षाणां सहसैर्या न्यूना भवति स दुष्षमसुषमायाः कालो, द्विचत्वारिंशद्वर्षसहस्रन्यूनैकसागरोपमकोटिकोटिप्रमाणा दुष्षमसुषमेत्यर्थः, अथ दुष्षमायां कालप्रमाणमेकविंशतिवर्षसहस्राणि तावानेव च दुष्पमाप्रमाण एव भवेत् कालः अतिदुष्षमायामपि, एकविंशतिवर्षसहस्रप्रमाणा दुष्षमदुष्षमापि भवतीति भाव:, अस्यां चावसर्पिण्यां शरीरोच्छ्रयायुष्क कल्पवृक्षादिशुभभावानां परतोऽनन्तगुणा परिहानिः तथाहि - सुषमसुषमायां मनुष्याणां गव्यूतत्रितयं शरीरोच्छ्रयः त्रीणि च पल्योपमान्यायुः शुभपरिणामोऽपि कल्पवृक्षादिरनेकः, सुषमायां द्वे गव्यूते द्वे च पल्योपमे कल्पपादपादिपरिणामश्च शुभो हीनतरः, सुषमदुष्षमायामेकं गव्यूतं एकं पल्योपमं हीनतमश्च कल्पवृक्षादिपरिणामः, दुष्षमसुषमायां पञ्च
Jain Education International
For Private & Personal Use Only
| १६० अवसर्पिणीस्वरूपम् गा. १०३३-७
॥ ३०६ ॥
www.jainelibrary.org