________________
काये पुनः पुनस्तत्रैवोत्पत्त्या स्थितिः असङ्ख्येयोत्सर्पिण्यवसर्पिण्यात्मिका कायस्थितिः भवो-नारकायेकजीवस्य विवक्षितमेकमेव जन्म तत्र स्थिति:-आयुःकर्मानुभवनपरिणतित्रयस्त्रिंशत्सागरोपमादिरूपा भवस्थितिः, एताः कर्मकायभवस्थितयः सूक्ष्माद्धासागरोपमेण प्रमीयन्ते इति भावः ॥ ३०॥ अथ बादरं सूक्ष्मं च क्षेत्रसागरोपममाह-'इहे'त्यादि, इह-अस्मिन् प्रक्रमे बादरक्षेत्रपल्योपमानां दशभिः कोटिकोटिभिर्बादरं क्षेत्रसागरोपमं सूक्ष्मक्षेत्रपल्योपमानां तु दशभिः कोटिकोटिमिः सूक्ष्म क्षेत्रसागरोपममिति तात्पर्यार्थः, अक्षरार्थस्तु पूर्ववदिति॥३१॥सूक्ष्मक्षेत्रसागरोपमस्य प्रयोजनमाह-एतेणे'त्यादि,एतेन-सूक्ष्मक्षेत्रसागरोपमस्यैव मानेन-प्रमाणेन ज्ञातव्यं, किमित्याहपरिमाणं-सङ्ख्यानं, केषां ?-पृथिव्युदकाग्निवायुवनस्पतित्रसजीवानां, एतच्च प्राचुर्येण दृष्टिवादे प्रतिपादितं सकृदेवान्यत्र सूक्ष्मोद्धाराद्धाक्षेत्रपल्योपमानामप्येतान्येव प्रयोजनानि द्रष्टव्यानीति १५९ ॥ ३२ ॥ इदानीं 'ओसप्पिणि'त्ति षष्ट्यधिकशततमं द्वारमाह
दस कोडाकोडीओ अद्धाअयराण हुँति पुन्नाओ । अवसप्पिणीऍ तीए भाया छच्चेव कालस्स ॥ ३३ ॥ सुसमसुसमा य १ सुसमा २ तइया पुण सुसमदुस्समा ३ होइ। दूसमसुसम चउत्थी ४ दूसम ५ अइदूसमा छट्ठी ६॥ ३४ ॥ सुसमसुसमाएँ कालो चत्तारि हवंति कोडिकोडीओ। तिनि सुसमाएँ कालो दुन्नि भवे सुसमदुसमाए ॥ ३५ ॥ एक्का कोडाकोडी बायालीसाऍ जा सहस्सेहिं । वासाण होइ ऊणा दूसमसुसमाइ सो कालो ॥३६॥ अह दूसमाएँ कालो वासस
हस्साई एकवीसं तु । तावइओ चेव भवे कालो अइदूसमाएवि ॥३७॥ 'दसे त्यादिगाथापञ्चकं, अवसर्पति हीयमानारकतया अवसर्पयति वाऽऽयुष्कशरीरादिभावान् हापयतीत्यवसर्पिणी तस्यां, तरीतुमशक्यानि
9AALAKAASARAMCCPR)
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org