SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ हियते यावता कालेन स पल्यो निर्लेपीक्रियते तावान् कालो बादरमद्धापल्योपमं विज्ञेयं, तत्र बादरेऽद्धापल्योपमे सोया वर्षकोट्यो भवन्तीति ॥ २४ ॥ अथ सूक्ष्ममद्धापल्योपममाह - 'वाससे' त्यादि, स एव पल्यः प्राग्वदसोयखण्डीकृतसूक्ष्मवालाप्रैराकर्ण परिपूर्णः क्रियते, ततो वर्षशते वर्षशतेऽतिक्रान्ते सत्येकैकसूक्ष्मवालाप्रापहारतो यावता कालेन स पल्यः सर्वात्मना रिक्तो भवति तावान् कालः सूक्ष्ममद्धापल्योपमं अवबोद्धव्यं, तत्र च सूक्ष्मेऽद्धापल्योपमे भवन्त्यसङ्ख्येयानि वर्षाणि, असङ्ख्या वर्षकोटयो भवन्तीत्यर्थः ॥ २५ ॥ सम्प्रति बादरं सूक्ष्मं च क्षेत्रपल्योपममाह - 'बायरे' त्यादि, बादराणि च सूक्ष्माणि च बादरसूक्ष्माणि पूर्वोक्तपल्यगतानि | सहजान्यसङ्ख्येयखण्डीकृतानि च यानि वालाप्राणीत्यर्थः तेषामवगाढत्वसम्बन्धेन सम्बन्धि यदाकाशं तत्र ये क्षेत्रप्रदेशा- निरंशनभो | विभागस्वरूपास्तेषामनु समयं - प्रति समयमेकैकापहारे क्रियमाणे यावान् कालो लगति तदात्मकं यथाक्रममेव बादरं सूक्ष्मं च क्षेत्रं - क्षेत्रपल्योपमं भवति, इयमत्र भावना - स एवोत्सेधाङ्गुलप्रमितयोजनप्रमाणविष्कम्भायामावगाढः पल्यः पूर्ववदेकाहोरात्रयावत्सप्ताहोरात्रप्ररूढैर्वाला मैराकर्ण निचितो भ्रियते, ततस्तैर्वालाप्रैर्ये नमः प्रदेशाः स्पृष्टास्ते समये समये एकैकनभः प्रदेशप्रति समयापहारेण यावता कालेन | सर्वात्मना निष्ठामुपयाति तावान् कालविशेषो बादरं क्षेत्रपल्योपमं एतच्चासये योत्सर्पिण्यवसर्पिणीमानं, यतः क्षेत्रस्यातिसूक्ष्मत्वेनैकैकवालाप्रावगाढक्षेत्र प्रदेशानामपि प्रतिसमयमेकैकापहारे 'अंगुल असंखभागे ओसप्पिणीओ असंखेज्जा' [ अङ्गुलासंख्येयभागे अवसपिंण्योऽसंख्येयाः ] इति वचनात् असङ्ख्येया उत्सर्पिण्यवसर्पिण्यो लगन्ति, किं पुनः सर्ववालाप्रावगाढक्षेत्र प्रदेशापहार इति । तथा स एव पूर्वोक्तः पल्यः पूर्ववदेकैकं वालाप्रमसङ्ख्येयखण्डं कृत्वा तैराकर्ण भृतो निचितश्च तथा क्रियते यथा मनागपि न तत्राम्यादिकमात्रामति, एवं भृते तस्मिन् पल्ये ये आकाशप्रदेशास्तैर्वालायैः स्पृष्टा ये च न स्पृष्टास्ते सर्वेऽप्येकैकस्मिन् समये एकैकाकाशप्रदेशापहारेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy