________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ ३०३ ॥
Jain Education
तानि अत्र तु तान्येव वालाग्राणि प्रत्येकं तावदसत्कल्पनया खण्ड्यन्ते यावददृश्यतास्वरूपास येयखण्डरूपतामेकैकं वालानं भजत इति, तत्पुनरेकैकं वालाप्रखण्डं द्रव्यतोऽत्यन्तविशुद्धलोचनश्छद्मस्थः पुरुषो यदतीव सूक्ष्मं पुद्गलद्रव्यं चक्षुषा पश्यति तदसत्येय भागमात्रं, क्षेत्रतस्तु सूक्ष्मपनकशरीरं यावति क्षेत्रेऽवगाहते तदसङ्ख्येयगुणक्षेत्रावगाहि द्रव्यप्रमाणं, तथा चानुयोगद्वारसूत्रम् - "तत्थ णं एगमेगे वालग्गे असंखेज्जाई खंडाई किज्जइ, ते णं वालग्गा दिट्ठीओगाहणाओ असंखेज्जइभागमेत्तातो सुहुमस्स पणगजीवस्स सरीरोगाहणाउ असंखेज्जगुणा” [ तत्रैकैकस्य वालाप्रस्यासंख्येयानि खण्डानि क्रियते तानि वालाग्राणि दृष्ट्यवगाहनातोऽसंख्येयभागमात्राणि सूक्ष्मस्य पन| कजीवस्य शरीरावगाहनाया असंख्येयगुणानि ] इति, वृद्धास्तु व्याचक्षते - बादरपर्याप्तपृथिवी काय शरीर तुल्यमिति, तथा चानुयोगद्वारमूलटीकाकृदाह हरिभद्रसूरिः - "बादरपृथिवीकायिकपर्याप्तशरीरतुल्यान्यसङ्ख्येयखण्डानी" ति वृद्धवादः, एवं कृत्वा ततः किं विधेयमित्यत्रोच्यते - ततोऽमीषां सर्वेषामपि समच्छेदानां परस्परं तुल्यखण्डीकृतानां प्रत्येकं चाद्याप्यनन्तप्रादेशिकानामनन्तपरमाण्वात्मकानां तमेव पूर्वोक्तं पल्यं बिभृया - बुद्ध्या परिपूर्ण विध्यास्त्वमिति ॥ २२ ॥ एवं च तस्मिन् भृते यत्कर्तव्यं तदाह - 'तत्तो' इत्यादि, ततः -सूक्ष्मखण्डीकृतवालाप्रभृतपल्यात्प्रति समयमेकैकस्मिन् सूक्ष्मवालाप्रखण्डेऽपहियमाणे यावान् कालो लगति तावत्प्रमाणं सूक्ष्ममुद्धारपल्योपमं भवतीति प्राग्वदत्रापि सम्बन्धः, कियान् पुनरसौ कालो भवतीत्याह-सङ्ख्येया वर्षकोट्यः सूक्ष्मे उद्धारपत्योपमे भवन्तीति ज्ञातव्यं, वालाप्राणामिह प्रत्येकमसङ्ख्ये यखण्डात्मकत्वादेकैकस्यापि वालाग्रस्य सम्बन्धिनां खण्डानामपहारेऽसङ्ख्येयसमयराशिप्राप्तेः सर्ववालाग्रखण्डात्मकापहारे भवन्त्येव सङ्ख्याता वर्षकोट्यः ॥ २३ ॥ अथ बादरमद्धापल्योपमं प्रतिपादयितुमाह - 'वासे' त्यादि, तस्मिन्नेवोत्सेधाङ्गुलप्रमितयोजनप्रमाणायामविष्कम्भोद्वेधे पल्ये पूर्वोक्तसहजबादरवालाप्रैर्निभृतं भृते सति प्रति वर्षशतमेकैकं वालाग्रमप
For Private & Personal Use Only
१५८ पल्योपमस्ख रूपं० गा. १०१८२६
112021
www.jainelibrary.org