________________
Jain Education
योजनत्रयमानो यः पल्यः स इह पल्योपमं विज्ञेय इति तात्पर्यं ॥ १९ ॥ अथ अयमेव पल्यो यत्स्वरूपैर्वालायैः पूर्यते तदेतन्निरूपयितुमाह - 'एगाहिये' त्यादि, एकेनाह्रा निर्वृत्ता एकाहिक्यः द्वाभ्यां त्रिभिश्चाहोभिर्निष्पन्ना द्व्याहिक्यख्याहिक्यश्च तासामेकाहिकीद्वयाहिकीत्र्याहिकीनामेवं चतुराहिकीनां यावदुत्कर्षतः सप्तरात्रप्ररूढानां वालानामेवातिसूक्ष्मत्वादप्रकोटयो वालाप्रकोटयस्तासां भृतोऽसौ पल्यो - ऽत्राधिक्रियते, तत्र मुण्डिते शिरस्येकेनाहा यावत्प्रमाणा वालाग्रकोटय उत्तिष्ठन्ति ता एकाहिक्यः द्वाभ्यां तु या उत्तिष्ठन्ति ता ट्र्या| हिक्यः त्रिभिस्तु त्र्याहिक्यः एवं यावत्सप्तरात्रप्ररूढाः सप्तरात्रिक्य इति, कथं पुनस्तासां वालाप्रकोटीनां भृत इत्याह-संमृष्ट:- आकर्णं पूरितः संनिचितः - प्रचय विशेषान्निबिडीकृतः, किं बहुना ?, तथा कथभ्वनापि भृतोऽसौ पल्यो यथा तानि वालाग्राणि न वायुरपहरति नापि वह्निर्दहति न च तेषु सलिलं प्रविश्य कोथमापादयति, तदुक्तम् - "ते णं वालग्गा नो अग्गी डहेजा नो वाऊ हरेज्या नो सलिलं कुत्थेजा” [ तान् वालाग्रान् नाग्निर्दहेत् न वायुर्हरेत् न सलिलं कोथयेत् ] इत्यादि ॥ २० ॥ ततः किमित्याह - ' तत्तो' इत्यादि, ततो-यथोक्तवालाप्रभृतपल्यात् समये समये - प्रतिसमय मे कैकस्मिन् वालाग्रेऽपह्रियमाणे यावान् कालो लगति प्रतिसमयं वालाग्राकर्ष|णाद्यावता कालेन सकलोऽपि स पल्यः सर्वात्मना निर्लेपो भवतीत्यर्थः, तावान् कालो बादरमुद्धारपल्योपमं इत्यावृत्त्या प्रथमान्ततयाऽप्यत्र सम्बद्ध्यते, क्रियान् पुनरसौ काल इति कथ्यतामित्याह - खल्ववधारणे सङ्ख्येया एव समया अस्मिन् बादरे उद्धारपल्योपमे भवन्ति नासङ्ख्येयाः, वालाग्राणामप्यत्र सङ्ख्यातत्वात् तेषां च प्रतिसमय मे कैकापहारे सङ्ख्येयस्यैव समयराशेः सद्भावादिति ॥ २१ ॥ उक्तं बादरमुद्धारपल्योपमं अथ क्रमप्राप्तमेव सूक्ष्ममुद्धारपल्योपममभिधित्सुराह — 'एक्केक्के'त्यादि, अतः - सहजवालाप्रभृतपल्यादेकैकं लोम-पूर्वोक्तवालाग्रलक्षणं असङ्ख्येयानि खण्डानि यत्र तदसङ्ख्येयखण्डमदृश्यं कृत्वा, एतदुक्तं भवति - पूर्व वालाग्राणि सहजान्येव गृही
For Private & Personal Use Only
ww.jainelibrary.org