SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ &ा कादिविधिश्च तत्राभिहितः, दर्शनमालिन्यं चोभयत्रेत्याशंक्याह-एते-अनंतरोक्ते द्वे अपि-गृध्रपृष्ठवैहायसाख्ये मरणे 'कारण'त्ति प्राकृ तत्वेन सप्तमीलोपात् कारणे-दर्शनमालिन्यपरिहारादिके जाते-समुत्पन्ने यद्वा कारणजाते-कारणप्रकारे सति उदायिनृपानुमृततथाविधगीतार्थाचार्यवदनुज्ञाते इत्यदोषः॥ १६ ॥ सम्प्रति अन्त्यमरणत्रयमाह-'मरण'मित्यादि, भक्तं-भोजनं तस्य परिज्ञानं परिज्ञा, सा द्विधा-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च, ज्ञपरिज्ञयाऽनेकविधमस्माभिर्भुक्तपूर्वमेतद्धेतुकं च सर्वमवद्यमिति परिज्ञानं, प्रत्याख्यानपरिज्ञया Pl-"सव्वं च असणपाणं चउन्विहं जो य बाहिरो उवही । अन्भिन्तरं चउविहं जावजीवं च वोसिरइ ॥ १॥" [ सर्व चाशनपानं चतुर्विधं यश्च बाह्य उपधिः । अभ्यन्तरं चतुर्विधं यावज्जीवं च व्युत्सृजति ॥ १॥] इत्यागमवचनाच्चतुर्विधाहारस्य त्रिविधाहारस्य वा | यावज्जीवमपि परित्यागात्मकं प्रत्याख्यानं भक्तपरिज्ञोच्यते, तथा इयते-प्रतिनियतदेश एव चेष्ट्यतेऽस्यामनशनक्रियायामितीङ्गिनी, भक्तपरिज्ञायां हि त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याचष्टे शरीरपरिकर्म च स्वतः करोति परतश्च कारयति, इङ्गिन्यां तु नियमाञ्चतुर्विधाहारविरतिः परपरिकर्मविवर्जनं च भवति, स्वयं पुनरिङ्गितदेशाभ्यन्तरे उद्वर्तनादिचेष्टात्मकं परिकर्म यथासमाधि विधात्यपीति विशेषः, तथा पादैः-अधःप्रसर्पिमूलात्मकैः पिबतीति पादपो-वृक्षः, उपशब्दश्चौपम्ये उपमेयेऽपि सादृश्येऽपि च दृश्यते, ततश्च पादपमुपगच्छतिसादृश्येन प्राप्नोतीति पादपोपगमनं, किमुक्तं भवति ?-यथैव पादपः क्वचित्कथञ्चिनिपतितः सममसमं वा अविभावयन् निश्चल एवास्ते तथा अयमपि भगवान् यद्यथा समविषमदेशेष्वङ्गमुपाङ्गं वा प्रथमतः पतितं न तत्ततश्चलयतीति, इह चैवंविधानशनोपलक्षितानि मर-15 णान्यप्येवमुक्तानि, अत एवाह-त्रीणि मरणानि, अर्थतेषामेव त्रयाणां मरणानां किञ्चित् स्वरूपमाह-कन्नस'त्ति सूत्रत्वात् कनिष्ठंलघु जघन्यमितियावत् मध्यम-लघुज्येष्ठयोर्मध्यभावि ज्येष्ठं-अतिशयवृद्धमुत्कृष्टमित्यर्थः तत एतेषां द्वन्द्वे कनिष्ठमध्यमज्येष्ठानि यथास Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy