SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ३०० ॥ न्तीति छद्मानि - ज्ञानावरणादीनि कर्माणि तेषु तिष्ठन्तीति छद्मस्थास्तेषां मरणं छद्मस्थमरणमेतत् इह च प्रथमतो मनःपर्यायनिर्देशाद्वि| शुद्धिकृतप्राधान्याङ्गीकारेण चारित्रिण एतदुपजायते इति स्वामिकृतप्राधान्यापेक्षया द्रष्टव्यं एवमवध्यादिष्वपि यथायोगं स्वधियैव हेतुर्वाच्य इति, तथा केवलमरणं केवलिनः - उत्पन्नकेवलज्ञानस्य सकलकर्मपुद्गलशाटनतो म्रियमाणस्य भवतीति ॥ १४ ॥ साम्प्रतं वैहाय| सगृध्रपृष्ठमरणे अभिधातुमाह - 'गिद्धा ईत्यादि, गृध्राः - प्रतीताः ते आदिर्येषां शकुनिका शिवादीनां तैर्भक्षणं गम्यमानत्वादात्मनस्तदनिवारणादिना तद्भक्ष्यकरिकरभादिशरीरानुप्रवेशेन च गृध्रादिभक्षणं, तत्किमुच्यते ? इत्याह- 'गिद्धपिट्ठ' त्ति गृधैः स्पृष्टं - स्पर्शनं यस्मिन् तद् गृध्रस्पृष्टं यदिवा गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि च मर्तुर्यस्मिन् तद् गृधपृष्ठं, स ालक्तकपूणिकापुट प्रदानेनात्मानं गृधादिभिः पृष्ठादौ भक्षयतीति, पञ्चान्निर्दिष्टस्यापि तस्य प्रथमतः प्रतिपादनमत्यन्तमहासस्वविषयतया कर्मनिर्जरां प्रति प्राधान्यख्यापनार्थम्, 'उब्बंधणाइ वेहास' मिति उद्- ऊर्द्ध वृक्षशाखादौ बन्धनमुबन्धनं तदादिर्यस्य वरुगिरिभृगुप्रपातादेरात्मनैव जनितस्य मरणस्य तदुबन्धनादि, 'वेहास' मिति प्राकृतत्वाद्यलोपे विहायसि - व्योमनि भवं वैहायसं उद्बद्धस्य हि विहायस्येव भवनमिति तत्प्राधान्यविवक्षयेत्थमुक्तमिति, नन्वेवं गृध्रपृष्टस्याप्यात्मघातरूपत्वाद्वैहायस एवान्तर्भावः, सत्यमेतत् केवलमस्याल्पसत्त्वैर्विधातुमशक्यत्वख्यापनार्थ भेदोपन्यासः, ननु — 'भावियजिणवयणाणं ममत्तरहियाण नत्थि हु विसेसो । अप्पाणंमि परम्मि य तो वज्जे पीडमुभओऽवि ॥ १ ॥ भावितजिनवचनानां ममत्वरहितानां नास्त्येव विशेषः । आत्मनि च परस्मिंश्च ततो वर्जयेत् पीडामुभयोरपि ॥ १ ॥ ] इत्यागमः, एते चानन्तरोक्ते मरणे अत्यन्तमात्मपीडाकारिणी इति कथं नागमविरोधः ?, अत एव च भक्तपरिज्ञानादिषु पीडापरिहाराय 'बत्तारि विचित्ताई । विगईनिज्जूहियाई चत्तारि ॥' [ चत्वारि ( वर्षाणि ) विचित्राणि विकृतिनिर्यूढानि चत्वारि ] इत्यादिसंलेखनाविधिः पान Jain Education International For Private & Personal Use Only मरणानि १७ ॥ ३०० ॥ www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy