________________
तया सह तेन सशल्यं तच्च तन्मरणं च सशल्यमरणम् - अन्तःशल्यमरणं भवति तेषां गौरवपङ्कनिमग्नानामिति ॥ ११ ॥ तद्भवमरणमाह - 'मोतुं' इत्यादि, मुक्त्वा - अपहाय, कान् ? - अकर्मभूमिजाश्च ते देवकुरूत्तरकुर्वादिपूत्पन्नतया नरतिर्यश्वश्चाकर्मभूमिजनरतिर्यश्चस्तान् तेषां हि तद्भवानन्तरं देवेष्वेवोत्पादः, तथा सुरगणांश्च-सुरनिकायान् किमुक्तं भवति ? - चतुर्निकायवर्तिनोऽपि देवान् तथा निरयो - नरकस्तस्मिन् भवा नैरयिकास्तांश्च मुक्त्वेति सम्बन्धः, तेषां देवानां च तद्भवानन्तरं तिर्यग्मनुष्येष्वेवोत्पत्तेः शेषाणां - एतदुद्धरितानां कर्मभूमिजनरविरखां जीवानां प्राणिनां तद्भवमरणं, तेषामेव पुनस्तत्रोत्पत्तेः, तद् विद्यते यस्मिन् भवे - तिर्यग्मनुष्यलक्षणे वर्तते जन्तुस्तद्भवयोग्यमेवायुर्बद्धा पुनस्तत्क्षयेण म्रियमाणस्य भवति, तुशब्दस्तेषामपि सयवर्षायुषामेवेति विशेषख्यापकः, असयवर्षायुषां हि युगलधार्मिकत्वादकर्मभूमिजानामिव देवेष्वेवोत्पाद:, तेषामपि न सर्वेषां, किन्तु केषाञ्चित्तद्भवोपादानरूपमेवायुः कर्मोपचिन्वतामिति ॥ १२ ॥ अत्रान्तरे-आबीई इति गाथा सूत्रे दृश्यते न चास्या भावार्थ: सम्यगवगम्यते नाप्यसावुत्तराध्ययनचूर्ण्यादिषु व्याख्यातेत्युपेक्ष्यते ॥ १३ ॥ सम्प्रति बालपण्डित मिश्रमरणान्याह - 'अविरये 'त्यादि, विरमणं विरतं-हिंसानृतादेरुपरमणं न विद्यते तद्येषां तेऽविरतास्तेषां - मृतिसमयेऽपि देशविरतिमप्यप्रतिपद्यमानानां मिध्यादृशां सम्यग्दृशां वा मरणमविरतमरणं तद् बाला इव बालाः - अविरतास्तेषां | मरणं बालमरणमिति ब्रुवते इति सम्बन्धः, तथा विरतानां - सर्वसावद्यनिवृत्तिमभ्युपगतानां मरणं पण्डितमरणं ब्रुवते तीर्थकरगणधरादय इति, तथा जानीहि बालपण्डितमरणं - मिश्रमरणं, पुनः शब्दः पूर्वापेक्षया विशेषद्योतनार्थः, देशात्सर्वविरतविषयापेक्षया स्थूलप्राणिव्यपरोपणादेर्विरता देशविरतास्तेषां देशविरतानां ॥ १४ ॥ एवं चरणद्वारेण बालादिमरणत्रयमभिधाय ज्ञानद्वारेण छद्मस्थमरणकेवलिमरणे प्राह- 'मणपज्जवो' इत्यादि, मनः पर्यायज्ञानिनोऽवधिज्ञानिनः श्रुतज्ञानिनो मतिज्ञानिनश्च त्रियन्ते ये श्रमणाः -- तपस्विनः छादय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org