SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ मरणानि प्रव० सा रोद्धार तत्त्वज्ञानवि० ॥२९९॥ विधं, विशेषः पुनरयं-'नवि मरइ ताणि पुणो'त्ति अपिशब्दस्यैवकारार्थत्वान्नैव तानि-द्रव्यादीनि पुनर्मियते, अयमर्थः-यानि नर- काद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतश्च न पुनस्तान्यनुभूय मरिष्यतीत्येवं यन्मरणं तद् द्रव्यापेक्षयाऽत्यन्तभावित्वादात्यन्तिकमिति, एवं क्षेत्रादिष्वपि वाच्यम् ॥ ९॥ वलन्मरणमाह-'संजमें'त्यादि, संयमयोगा:-संयमव्यापारास्तैस्तेषु वा विषण्णाः संयमयोगविषण्णा:-अतिदुश्वरं तपश्चरणमाचरितुमक्षमाः व्रतं च कुलादिलजया मोक्तुमशक्नुवन्तः कथञ्चिदस्माकमितः कष्टानुष्ठानान्मुक्तिर्भवत्विति विचिन्तयन्तो म्रियन्ते यच्च तद्बलता-संयमानुष्ठानान्निवर्तमानानां मरणं वलन्मरणं, तुशब्दो विशेषणार्थो भग्नव्रतपरिणतीनां वतिनामेवैतदिति विशेषयति, अन्येषां हि संयमयोगानामेवासम्भवात् कथं तद्विषादः ? तदभावे च कथं तदिति ॥ वशार्त्तमरणमाह -'इंदिये'त्यादि, इन्द्रियाणां-चक्षुरादीनां विषया-मनोज्ञरूपादय इन्द्रियविषयाः तद्वशं गताः-प्राप्ता इन्द्रियविषयवशगताः स्निग्धदीपकलिकावलोकनाकुलशलभवन्म्रियन्ते तद्वशार्तमरणं, वशेन-इन्द्रियविषयपारतव्येण ऋता:-पीडिता वार्ताः तेषां मरणमप्युपचाराद्वशार्त्तमुच्यते इति ॥ १०॥ अन्तःशल्यमरणमाह-'गारवे'त्यादि, गौरवं-सातर्द्धिरसगौरवात्मकं तदेव कालुष्यहेतुतया पङ्कःकर्दमः तस्मिन्निमग्नाः तत्क्रोडीकृततया अतिचार-अपराधं ये परस्य-आलोचनार्हस्याचार्यादेर्न कथयन्ति, मा भूदस्माकमालोचनाईमा|चार्यादिकमुपसर्पतां तद्वन्दनादितदुक्ततपोऽनुष्ठानासेवनेन ऋद्धिरससाताभावसम्भव इति, उपलक्षणं चैतत् , ततो बहुश्रुतोऽहं तत्कथमल्पश्रुतोऽयं मम शल्यमुद्धरिष्यति ? कथं चाहमस्मै वन्दनादिकं दास्यामि ? अयं च ज्ञानहीनोऽयं वा मम सम इत्यभिमानेन लजया वा-अनुचितानुष्ठानसंवरणस्वरूपया येऽतिचारं न कथयन्तीति, किंविषयमित्याह-दर्शनज्ञानचारित्रे-दर्शनज्ञानचारित्रविषयं, तत्र दर्शनविषयं शङ्कादि ज्ञानविषयं कालातिक्रमादि चारित्रविषय समित्यननुपालनादि, शल्यमिव शल्यं कालान्तरेऽप्यनिष्टफलविधानं प्रत्यवन्ध्य Jan Educat an inte For Private & Personal use only How.iainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy