________________
इव वीचय:- प्रतिसमयमनुभूयमानायुषोऽपरापरायुर्दुलि कोदयात्पूर्वपूर्वायुर्दलिक विच्युतिलक्षणा अवस्था यस्मिन् मरणे तदावीचि, तत आवी -- || चीति संज्ञा सञ्जाता यस्मिन् तदावीचिसंज्ञितं, तारकादित्वादितचि रूपमिदं, अथवा वीचि:- विच्छेदस्तदभावोऽवीचिः, दीर्घत्वं तु प्राकृतत्वात् उभयत्र प्रक्रमान्मरणं, तदेवम्भूतं प्रतिक्षणमायुर्द्रव्यविचटनलक्षणमात्रीचिमरणं पञ्चविधं भणन्ति तीर्थकरगणधरादयो ऽस्मिन् संसारे जगति, पञ्चविधत्वमेवाह - द्रव्ये क्षेत्रे काले भवे भावे च द्रव्याऽऽवीचिमरणं क्षेत्राऽऽवीचिमरणं कालाssवीचिमरणं |भवाऽऽवीचिमरणं भावाऽऽवीचिमरणं चेत्यर्थः, तत्र द्रव्याऽऽवीचिमरणं नाम यन्नारकतिर्यग्नरामराणामुत्पत्तिसमयात्प्रभृति निजनिजायु:| कर्म दलिकानामनुसमयमनुभवनाद्विचटनं, तश्च नारकादिभेदाच्चतुर्विधं, एवं नारका दिगतिचातुर्विध्यापेक्षया तद्विषयं क्षेत्रमपि चतुर्विधं । ततस्तत्प्राधान्यापेक्षया क्षेत्रावीचिमरणमपि चतुर्वैव, काल इति यथायुष्ककालो गृह्यते, न तु अद्धाकालस्तस्य देवादिष्वसम्भवात्, सच | देवायुष्ककालादिभेदाचतुर्विधः, अतस्तत्प्राधान्यापेक्षया कालावीचिमरणमपि चतुर्विधमेव नारकादिचतुर्विधभवापेक्षया भवावीचिमरणमपि चतुर्थैव तेषामेव च नारकादीनां चतुर्विधायुःक्षयलक्षणभावप्राधान्यापेक्षया भावावीचिमरणमपि चतुर्वैवेति ॥ ८ ॥ अथावधि - मरणमाह - 'एवमेवे 'त्यादि, एवमेव यथाssवीचिमरणं द्रव्यक्षेत्रकालभवभावभेदतः पञ्चविधं तथेदमवधिमरणमपीत्यर्थः, तत्स्वरूप - | माह - यानि मृतः सम्प्रतीति शेषः तानि चैव 'मरइ पुण'त्ति तियत्ययेन मरिष्यति पुनः किमुक्तं भवति ? - अवधि:- मर्यादा ततश्च | यानि नारकादिभवनिबन्धनतयाऽऽयुः कर्म दलिकान्यनुभूय म्रियते पुनर्यदि तान्येवानुभूय मरिष्यति तदा द्रव्यावधिमरणं, तद्रव्यापेक्षया पुनस्तद्वद्दणावधेर्यावज्जीवस्य मृतत्वात्, सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां पुनर्ग्रहणं परिणामवैचित्र्यादिति, एवं | क्षेत्रकालादिष्वपि भावना कार्या । आत्यन्तिकमरणमाह – 'एमेवे 'त्यादि, एवमेव - अवधिमरणवदात्यन्तिकमरणमपि द्रव्यादिभेदतः पञ्च
Jain Education International
For Private & Personal Use Only
6-%%*
jainelibrary.org